________________
तत्वार्थहरि०
सम्यग्दर्शनलक्षणं
घोतकमपेक्षत इत्याह-तत् सम्यग्दर्शनं, एतदुक्तं भवति-यत्रानन्तरोदिता प्राप्तिस्तत् सम्यग्दर्शनं,एतदेव निपातयोगेन पक्षद्वयमधिकृत्य विशेषतो योजयाह-'प्रशस्त'मित्यादि, 'प्रशस्तं दर्शन' प्रशस्त मुक्तिसुखहेतुत्वात् ,सम्यग्दर्शनं तत्त्वस्य, तत्स्वाभाव्याद् , आवरणदोषतोऽन्यथाप्रतीतेः, तथारुचिप्रधानमित्यर्थः, अयमव्युत्पत्तिपक्षार्थः,व्युत्पत्निपक्षार्थमाह-'सङ्गत मित्यादि, सङ्गतं च नित्यानित्याद्यधिगमानुसारप्रवृत्तं दर्शनं,तच्चाधिगमादेव समुपजाता रुचिरिति भावः। एवं सम्यग्दर्शनशब्दावयवव्यारव्यानेन सम्यगज्ञानचारित्रयोरपि लेशतः काका व्याख्यानं कृतमेव वेदितव्यं,तथाहि-सम्यग्ज्ञानशब्देऽपि सम्यकशब्दः प्रशंमार्थो निपातः,समंचतेर्वा, ज्ञानमिति च भाव एव, एवं चारित्रमपि, स्वस्थाने च विशेष वक्ष्यामः,सर्वत्र चाव्युत्पत्तिपक्षः प्रथमं तत्पूर्वक एव व्युत्पतिपक्ष इति ज्ञापनार्थ, तथाहि-ज वर्णादीनां व्युत्पत्तिः, तत्पूर्वकाश्च पदादयः, इन्यलं प्रसङ्गेन ।। सम्प्रति यथोद्दिष्टानां सम्यग्दर्शनादीनामाद्यस्य लक्षणमाह
तत्र-तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ सूत्रं (२) | तत्रशब्द उपन्यासार्थः, तत्वार्थश्रद्धानं-रुचिरूपं सभ्यग्दर्शनं-मिथ्यात्वमोहनीयक्षयादिनिमित्तम् , अज्ञानात परिणामान्तरमिति, सूत्रसमुदायार्थः, अवयवार्थाभिधित्सया त्वाह भाष्यकार:-"तत्वाना" मित्यादि, (पृ.६-५) तत्त्वानाम्-अविपरीतानामर्थानाम्-अर्यमाणानां जीवादीनां श्रद्धानम्-एवमेतदिति रुच्यभिप्रीतिरूपं तत्वार्थश्रद्धानमिति, आह-यत्तचं तन्नार्थ विहा| यान्यद्भवितुमर्हति अर्थो वा तच्चमन्तरेणेत्ययुक्तं द्वयोरुपादानं, नायुक्तं, कपिलादिपरिकल्पितस्य नित्यादेरर्थस्य तच्चविशेषणा-8 योगात् , अर्थक्रियाविरहेण तस्यानर्थत्वादिति प्रतिपादितमन्यत्र, अर्थश्च स तेषामिति तद्व्यपोहाथं द्वयाभिधानं, तच्चानाम
MamiDisadiwamindeindi madamsumadAHISAMADHmmuni"5
॥१८॥
0
Jan Educatio international
For Personal Private Use Only
www.jainelibrary.org