SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ श्री तत्वार्थ हरि० ७ अध्या० ॥३५७|| Jain Education International स्मृतिमूलत्वाच्च मोक्षसाधनानुष्ठानस्येत्येते पंच सामायिकत्रतस्यातीचारा भवन्तीति ॥ कथिताः सामायिकातिचाराः, तत्समीपोद्देशभाजः खलु पौषधोपवास्य केतीचारा १ इत्याह अप्रत्युपेक्षिताप्रमार्जितोत्सर्गादाननिक्षेप संस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ।। ७-२९ ।। सूत्रम् ।। प्रत्युपेक्षणं-चक्षुषा निरीक्षणं भ्रस्थंडिलस्य सचित्तमिश्रस्थावरजंगमजंतुशून्यतोपलम्भाय, प्रमार्जनं वस्त्रप्रान्तादिना विशुद्धिहेतोयथा युज्यमानमागमोपयुक्तस्य प्रतिपन्नपौषधोपवासस्य अयं क्रियाकलापोऽगारिणः प्रतिनिर्द्दिश्यते, उत्सर्गः -त्यागो निष्ठथूतस्वेद| मलमूत्रपुरीषादीनां प्रत्यवेक्षिते प्रमार्जिते चोत्सर्गः कार्यः, अथाप्रत्यवेक्षिताप्रमार्जिते उत्सर्ग करोति ततः पौषधोपचासव्रतमतिचरतीति, आदानं-ग्रहणं पृष्ठिपीठफलकादीनां तदपि प्रत्यवेक्ष्य प्रमृज्य च कार्यमन्यथाऽप्रत्यवेक्षिताप्रमार्जितस्यादानं अतीचारो, निक्षेपश्च, तथा अप्रत्यवेक्षिते अप्रमार्जिते च भूदेशे संस्तारोपक्रमः, संस्तीर्यते यः प्रतिपन्नपौषधोपवासेन दर्भकुशकम्बलवस्त्रादिस्त| स्योपक्रमकरणमनुष्ठानं भूदेशे, यद्वा दर्भादि संस्तीर्यते तत् प्रत्यवेक्ष्य प्रमृज्य चेति, अन्यथाऽतीचारः, स्मृत्यनुपस्थापनं च प्राख्याख्यातम्, अनादरः पौषधोपवासं प्रति, उपवासप्रतिपत्तिकर्तव्यताक्रियायां तद्विषयमेव च स्मृत्यनुपस्थापनमित्येते पंच पौषधोपवासस्वातीचारा भवन्तीति ॥ सम्प्रति प्रस्तावायातोपभोगातिचारान् वक्तुकाम आह सचित्तसम्बद्धसंमिश्राभिषवदुष्पकाहाराः ॥ ७-३० ।। सूत्रम् ॥ भोजनकृतं उपभोगपरिभोगं विशिनष्टि सचित्ताहार इत्यादिना भाष्येण, चित्तं चेतना संज्ञानमुपयोगोऽवधानमिति पर्यायाः, | सचित्तश्चासावाहारश्चेति सचित्ताहारः, सचित्त आहारो वा यस्य, सचित्तमाहारयति सचित्ताहारः, मूलकन्दलीकन्दकादिः साधारणवन For Personal & Private Use Only पौषधातीचाः ॥३५७जा www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy