SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ श्रीतचार्थ हरि० ७ अध्या० अनर्थदण्डसामायिकातीचाराः प्रचारसंयुक्तमिति दुष्टकायप्रवीचारो मोहनीयकर्मोदयसमावेशात् तद्युक्तं-तत्सम्बन्धमुभयमपि वाग्व्यापारोपसर्जनं कायव्यापारप्रधानं कौकुच्यमिति । मौखर्यमित्यादि, मुखरः-अनालोचितभाषी तुण्डिलः, तदेव व्याचष्टे-असंबबहुपलापित्वमिति, असम्बद्धमिति पूर्वापरेणाघटमानं बहु प्रलापयतीति तच्छीलश्च बहुप्रलापी तद्भावः बहुप्रलापित्वं यत्किंचिदसम्बद्धं जल्पति, न |च स्वात्मनः कंचिदर्थ साधयतीति, असमीक्ष्याधिकरणमनालोच्याधिकरणमसमीक्ष्य कुर्वाणः स्वात्मानं नरकादिष्वधिकरोति | येन तदधिकरणं, तश्च लोकमतीतमिति भाष्यं, यमात्मनः कंचिदुपकार करोति परप्रयोजनमेव केवलं साधयति तदसमीक्ष्याधि करणमात्मनोऽनुपयोगादिति विवेकिजनप्रतीतं, उपभोगाधिकत्वं चेति, लोकप्रतीतमेवेत्यमिसम्बध्यते, स्नानामलका यावदुप| युज्यंते स्वात्मनः तावत एव पेपयतीत्यादिक्रियालक्षण उपभोगस्ततोऽन्यस्याधिक्यमित्युपभोगाधिकत्वमित्यनर्थदण्डविरतेः पंचातीचारा भवन्तीति । अनर्थदण्डानन्तरोद्दिष्टसामायिकातीचारप्रसिद्धयर्थमिदमुच्यते योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥७-२८ ॥ सूत्रम् ।। ___ युज्यन्ते इति योगा:-कायादयः प्रणिधानं प्रयोगः वुष्टं प्रणिधानं दुष्प्रणिधानं, दुष्प्रणिधानमिति शरीरावयवाः-पाणिपादादयस्तेषामनिभृततावस्थापनं कायदुष्प्रणिधान, वर्णसंस्कारभावार्थानवगमचापलान्विता वाक्रिया वाग्दुष्प्रणिधानं, क्रोधलोभाभिद्रोहाभिमानेादिकार्यव्यासंगजातसंभ्रमो दुष्टं प्रणिधत्ते मन इति मनोदुष्प्रणिधानं, अनादर:-अनुत्साहः, प्रतिनियतवेलायामकरणं सामायिकस्य, यथाकथंचित्प्रवृत्तिरनादरः अनैकाम्यं, स्मृतेरनुपस्थापनमुद्धान्तचित्तता, स्मृतेरनुपस्थापनं स्मृत्यभावः, किंविषयायाः स्मृतेः ?, सामायिकप्रस्तावाद् तत्तद्विपपाया इति, सामायिक मया कर्त्तव्यं न कर्त्तव्यमिति वा कृतं न कृतमिति वा स्मृतिभ्रंशः, ॥३५६॥ ॥३५ Jan Education r ational For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy