________________
श्रीतस्वार्थहरि० ७ अध्या०
।।३५५॥
Jain Education International
पततीति शब्दानुपातः, स एव श्रोता पुरुषः, अथवा शब्दस्यानुपतनम् - उच्चारणं तादृग् येन परकीय श्रवणविवरमनुपतति शब्दः, तथा रूपानुपातः शब्दमनुच्चारयनुत्पन्नप्रयोजनः स्वशरीररूपं परेषां दर्शयति, तद्दर्शनाच्च तत्समीपमागच्छंति ते द्रष्टार इति रूपानुपातः, तथा पुद्गलक्षेपोऽतीचारः, पुद्गलाः- परमाण्वादयः, तत्संयोगाद् व्यणुकादयः स्कन्धाः सूक्ष्मस्थूलभेदाः, तत्र ये बाद| राकारपरिणता लोष्टेष्टकाष्ठशलाकादयः तेषां क्षेपः- प्रेरणं, कार्यार्थी हि विशिष्टदेशाभिग्रहे सति परतो गमनाभावात् लोष्टादीन् परेषां प्रतिबोधनाय क्षिपति, लोष्टादिपातसमनन्तरमेव च ते तत्समीपमनुधावतीत्येते पंच देशव्रतस्यातीचारा भवन्ति, यस्माद्गमनागमनजनितप्राणव्यपरोपणपरिजिहीर्षया देशावकाशिकवतममिगृह्णतेऽगारिणः, तत्र च स्वयमुपमर्दः कृतोऽन्येन वा कारित इति न | कश्चित् फले विशेषः, प्रत्युत गुणः, स्वयंगमने कियानपि गुणो लक्ष्यते, ईयापथविशुद्धौ स्वयं निपुणत्वात् परस्य च प्रमादवतो | गमने भूतोपमर्दसंभवादिति । एवं कथिता देशव्रतातीचाराः, अनर्थदण्ड विरतेरतिचाराभिधित्सयेदमुच्यते-कन्दर्पकौकुच्यमौखर्यासमीक्षाधिकरणोपभोगाधिकत्वानि ॥ ७-२७ ।। सूत्रम् ॥
कन्दर्पः प्रतीतः, कोकुच्यं कर्णनासिकौष्ठनयनकुत्सित संकोचनादिक्रियायुक्तं मुखेनात्मनोऽरीभावकरणं असमीक्ष्याधिकरणं उपभोगाधिकत्वमित्येते पंचानर्थदण्डविरतिव्रतस्यातीचारा भवंति, एतद् व्याचक्षते तत्र कन्दर्पो नामेत्यादि (१६२ - १३ ) तत्र | तेषु पंचस्वतीचारेषु कन्दर्पस्तावद् वाग्व्यापारः तत्स्वरूपकथनं रागसंयुक्त इति, रागः कामानुषंगी स्नेहः तत्सम्बद्धः सभार्हः सभ्यो न सभ्योऽसभ्यः अयुक्तो वाक्प्रयोगो हास्यं चेति, वाचः प्रयोग उच्चरणं वाक्प्रयोगः, हास्यं च हास्यमोहोदयांद विस्प ष्टवर्णश्रुतिरूपमिति, कौकुच्यं नामेत्यादि, नामशब्दोऽलंकारार्थः, एतदेव वाचो व्यापारणं हसनं चोभयं द्वयमपि दुष्टकाय
For Personal & Private Use Only
अनर्थ
दण्डातीचाराः
॥३५५॥
www.jainelibrary.org