SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ तृतीयत्रताती चारा हरि० ७अध्या० | मपि कूटतुलाकूटमानाभ्यां वंचनं-दम्भनं छलनमादिशब्दाद्वचनकायक्रियाग्रहणं तैर्युक्तः संबद्धः क्रयो-ग्रहणं विक्रयो-मूल्येन दानं, सर्वमेतन्न कार्य, 'वृद्धिप्रयोगश्चेति हीनाधिकव्यवहारसामान्याद् वृद्धिप्रयोगोपन्यासः, स्वरूपकादि वृद्धयाऽन्यस्य ददाति, |सा च वृद्धिरन्याय्या न्याय्या च, तत्रान्याय्या परिहरणीया, दशैकादशिकाप्रभृतिः, यद्यप्युभयरुच्या सा क्रियते तथाऽप्यतित| ष्णामिभूत इत्यपोद्यते लोकेन, न्याय्या तु तत आदेयेति, प्रतिरूपकव्यवहारो नामेत्यादि (१६१-५) नामशब्दः स्वरूपार्थः, प्रतिरूपकव्यवहारस्वरूपमिति, सुर्वणस्य प्रतिरूपकक्रिया पाठक सुवर्ण तादृशमेव अपरं द्रव्यं वर्णगौरवादिगुणयुक्तं निष्पादयति, प्रयोगविशेषात , तथा रूप्यं-रजतं कतिपयदिवसस्थायीति, आदिग्रहणात् किल घृतक्षीरदधितक्रताम्रकांस्यादिपरिग्रहः, व्याजीकरणानि चेति व्याजीकरणमपहृतानामन्यैर्गवादीनां सश्रृंगाणामनिपक्ककालिंगीफलस्वेदलानि शृंगान्यधोमुखानि प्रगुणानि तिर्य| ग्वलितानि वा यथारुचि शक्यंते कर्तु, ततश्च अन्यत्वमिव प्रतिपद्यन्ते गवादयः, तथा कृतेषु शृंगेषु सुखेन च धार्यन्ते, अन्यहस्ते वा विकीयन्त इति व्याजः, छपाछवरूपाणां छपरूपापादनं व्याजीकरणं, एवमेते पंचास्तेयव्रतस्यातीचारा भवन्तीति । चतुर्थाणुप्रतस्यातीचारामिधित्सयेदमुच्यते परविवाहकरणेत्वरपरिगृहीताऽपरिगृहीतागमनानंगक्रीडातीवकामाभिनिवेशाः ॥७-२३॥ सूत्रम् ।। एते प्रमव्रतस्यातीचाराः कृतद्वन्द्वा निर्दिष्टाः, परविवाहकरणं इत्वरपरिगृहीतागमनं अपरिगृहीतागमनं अनंगक्रीडा तीव्रकामामिनिवेशश्चेति, तत्र परविवाहकरणमिति स्वापत्यस्यागारिणाऽवश्यंतयैव विवाहः कार्यः, परविवाहकरणात्तु निवर्त्तते, गृह| स्थश्च द्वाभ्यां प्रकाराभ्यामब्रह्मणो निवर्तते, स्वदारसंतोषप्रतिपच्या परपरिगृहीतदारानभिगमनेन वा, स्वदारासेवनमेव प्रथमोऽभ्यु ॥३५१॥ ॥३५॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy