________________
श्रीतस्वार्थ
हरि०
७ अध्या०
॥ ३४८ ॥
100
Jain Education International
मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥ ७-२१ ॥ सूत्रम् ॥
मिथ्योपदेशोऽसदुपदेशः, रहः- एकान्तं तत्र भवं रहस्यं, रहस्ये एकान्ते अभ्याख्यानम् - अभिशंसनमसदभ्यारोपणं रहस्याभ्याख्यानं, कूटम् - असद्भूतं लिख्यत इति लेखः करणं क्रिया, कूटलेखस्य क्रिया कूटलेख क्रिया, न्यस्यते- निक्षिप्यत इति न्यासः - रूपकाद्यर्पणं तस्यापहारः -- अपलापः, यो यत्र द्रव्यापहारः परस्वस्त्रीकरणलक्षणः स न विवक्षितः, तस्यादत्तादानविषयत्वात्, यत् तत्र वचनं अपलापकं येन करणभूतेन न्यासोऽपहूनूयते - अपलप्यते तद्वचनं न्यासापहारः, आकारोऽङ्गुलिहस्तभ्रूनेत्रक्रियाशिरः कंपादि |रनेकरूपः परशरीरवर्ती तेन तादृशाकारेण सहाविनाभूतो यो मन्त्रो - गुप्तो गूढः पराभिप्रायः स्वयमुपलभ्य सहाकारं मन्त्रमसूयया| ssविष्करोति एप साकारमंत्र भेदः, भेदः - प्रकाशनं, मिथ्योपदेशादयः कृतद्वन्द्वाः पंचातीचाराः स्थूलानृतविरतेरिति । सम्प्रति भाष्यमनुश्रियते- 'एल' इति (१६०-३) सूत्रोक्ताः पंचेति पंचैव मिथ्योपदेशादयः, स्थूलमृषापरित्यागेन सत्यं वक्तव्यमिति, ततः सत्यव - | चनस्यातीचारा भवन्ति, तत्र मिध्ये (१६०-९) त्यादि तत्र तेषु पंचस्वतिचारेषु मिथ्योपदेशस्तावत्, नामशब्दः क्रमावद्योतनः प्रम - तस्य वचनं परपीडाजननं, बातां खरोष्ट्राः हन्यन्तां दस्यव इति, न यथार्थ यथावस्थितः अयथावस्थितः तस्यार्थ अयथार्थ तस्य वचनम् - उपदेशः, यथा परेण पृष्टः सन्देहापनेन अतथोपदेशः, विवादेष्वित्यादि (१६०-११) विवादः - कलहः तत्रान्यतरस्यातिसन्धानोपायमुपदिशति, अतिसंधानं छलनमादिशब्दाद् द्यूतग्रहणं, एवमादिरेवंप्रकारः सर्व एव मिथ्योपदेशोऽवसेयः, रहस्येत्यादि, रहस्येनाभ्याख्यानं स्त्रीपुंसयोः परस्परेणेति प्रतारणाद्वारेण, यदि वृद्धा स्त्री ततस्तस्यै कथयति अयं तव भर्त्ता कुमार्यामतिसक्तः, अथ तरुणी तत एवमाह-अयं ते भर्त्ता प्रौढचेष्टितायां मध्यमवयसि योषिति प्रसक्तः, तथाऽयं खरकामः मृदुकाम इति
For Personal & Private Use Only
wwwbo
द्वितीयत्रतातीचाराः
||३४८||
www.jainelibrary.org