________________
श्रीतत्त्वार्थ
हरि० ७अध्या०
naresh
भाष्य, त्रस्यन्तीति त्रसाः-द्वित्रिचतुःपंचेन्द्रियाः, तिष्ठन्तीति स्थावराः-स्थानशीला वृक्षादयो यथासम्भवमायोज्याः, द्रव्यभावप्राणैरजीवन् जीवन्ति जीविष्यन्ति चेति जीवाः तेपां सस्थावराणां जीवानां, बंधवधौ,तत्र बन्धः शंखपिपीलिकातिड्डकादीनामपि प्रथमव्रता| संभवति स च प्रायो निष्प्रयोजन इति नानुष्ठेयोऽणुव्रतिना, उत्सर्गतो गृहिणा तादृशान्येव द्विपदचतुष्पदादीनि परिग्राह्याणि यान्य
तीचाराः बद्धान्येवासते, असम्भवात्तादृशानामन्यत्र बन्धः सप्रयोजनः, सोऽपि सापेक्षो, दयावता नातिगाढगूढग्रन्थिः कार्यो दुविनीतपुत्रकदा|सीदासेरकादीनां गोमहिषीतुरंगादीनां वा, वधोऽप्येवमेव, समुत्पन्न प्रयोजनस्तु सापेक्षो निर्दयप्रहारान् परिहरन् कसादिमिर्वयो|ऽपेक्षया कर्णचलनचपेटादिमिश्च साधयेत् , तथा निष्प्रयोजन छविच्छेदः परिहार्य एव, तदाह- त्वक्छेदः काष्ठादीना'मिति । काष्ठशब्देन वृक्षपरिग्रहः आदिग्रहणात् भूमितेजाकरकद्वित्रिचतुष्पदपरिग्रहः, सप्रयोयनस्तु सापेक्षः, कर्णपाटनादिरंगुलिश्रवण-14 नासिकाछेदो वा मनाग्मयजननाय तस्करादीनां, पुरुष इत्यादि, पुरुषादयः कृतद्वन्द्वाः, आदिग्रहणात् खरकरभमेपच्छागपरिग्रहः | | यथासम्भवमेषामतिभारारोपणमतिचारः, उत्सर्गतो भाटकाद्याजीवः परित्याग्य एव, अन्यस्मादृते जीवनोपायाद् , बलीवर्दादीनां | यथोचितभारादपि किंचिन्यूनभारारोपणं, तृणपानीयाभ्यवहारोऽत्युष्णवेलायां च परिमोक्षणं, द्विपदानामप्येवमेव, तेपामेव चान्नपाननिरोध इति पंचमोऽतीचारः, एषामित्यादि, द्विपदचतुष्पदानामनपाननिरोधोऽप्रयोजनः परिहरणीय एव, सप्रयोजनं तु सापेक्षं कुर्यात् दुर्विनीतानामपत्यादीनां मन्दतीक्ष्णाशयानामुदन्यतां ज्वराद्यभिभूतानां चान्नपानं निरुणद्धि, स्वभोजनवेलायां तु वरितादेरन्यान् नियमत एव तावत् भोजयित्वा स्वयं भुंजीतेत्युपदेशः, अहिंसाव्रतस्यातीचारा भवन्तीति अव्पतिकरं दर्शयतीति ॥1
॥३४७|| स्थूलमृपावादविरतरतीचारानिधित्सयेदमाह
॥३४७॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org