SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ भीतधार्थ हरि० ७ अध्या० अधिकारः प्रथमव्रतातीचाराः व्रतशीलेषु पंच पंच यथाक्रमं ॥७-१९॥ सूत्रम् ।। व्रतानि स्थूलप्राणातिपातनिर्वृत्यादीनि पंच शीलानि-दिग्देशादीनि सप्त, कृतद्वन्द्वानि, अनन्तरसूत्रादतीचारा इत्यनुवर्तते, तस्याभिसम्बन्धः पंच पंचेति वीप्सा वाक्येन, अतोऽयमर्थः-एकैकस्याणुव्रतस्य शीलस्य च दिगादेः प्रत्येकं पंच पंचातिचाराः समवसेयाः यथाक्रमं यथानुपूयं, यो यः क्रमो व्रतानां प्रागभिहितस्तेनैव क्रमेणातीचारा वक्ष्यमाणा बोद्धव्याः, व्रतेषु इत्यादि, (१५९-१६) भाष्यं, सामान्येनापि व्रताभिधाने सामर्थ्यादगारिणो यानि व्रतानि तेषु विषये व्रतेपु पंचस्वित्यन्यूनातिरिक्तेषु शीलेषु |च सप्तस्विति, चशब्दः समुच्चयार्थः, सप्तव शीलानि, तेषु च पंच पंचेति नियमवचनं, प्रतिव्रतं प्रतिशीलं च पंचातीचारा भवन्ति, यथाक्रममिति व्यतिक्रमनिवृत्यर्थः, अन्यथा बन्धादयो मृपावादनिवृत्तेरप्यतीचाराः स्युः, मिथ्योपदेशादयोऽप्येवं व्यतिरेकेण प्राप्नुयुः, ऊर्ध्वं यद् वक्ष्याम इति नियमवचनाय प्रदर्शनं, यदुपरिष्टादतीचारजातमभिधास्यामः तदुक्तेषु व्रतेषु यथाक्रममिति । तद्यथेत्यनेन सम्बन्धमाचष्टे, यथा तदेतदतीचारजातं क्रमेण व्रतादिपु सम्बध्यते संप्रति तथोच्यते, प्राक्तावत् स्थूलप्राणातिपातत्र| तमित्युक्तं तस्यामी पंचातीचारा भवन्तीति निदर्शयति पन्धवधच्छविच्छेदातिभारारोपणान्नपाननिरोधाः ।।७-२० ॥ सूत्रं ॥ | तत्र बन्धनं बन्धः-संयमनं रज्जुदामनकादिभिः, हननं वधस्ताडनं कसादिभिः, छविः-शरीरं त्वक् वा छेदः-पाटनं द्विधाकरणं भारः-पूरणं अतीव बाढं सुष्ठु भारोऽतिभारः तस्यारोपणं स्कन्धपृष्ठादिपु स्थापनमतिभारारोपणं, अन्नम्-अशनादि पानं पेयमुद- | कादि तयोरदानं निरोधः, सर्व एव कृतद्वन्द्वा निर्दिष्टाः स्थूलप्राणातिपातविरतरतीचाराः, त्रसस्थावराणामित्यादि (१६०-२) ॥३४६॥ ॥३४६।। Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy