________________
श्रीतत्त्वार्थ
हरि०
७ अध्या
गुणा दाक्षिण्यसांगत्यप्रियप्रथमामिभापितालडहतादयस्तेषामेषु प्रकों दृश्यते गुणानामित्युद्भावनं भावतः प्रशंसा, अथवा ज्ञानदर्शने एव गुणौ तयोः प्रकर्पस्तद्भावनं-प्रकाशनं भावतः प्रशंसा, अथवा ज्ञानदर्शने एव गुणी तयोः प्रकर्षस्तदुद्भावनं सम्यक्त्वाप्रकाशनं भावतः प्रशंसा प्रत्यक्षतः परोक्षतो वा, संस्तवस्त्वित्यादि, तुशब्दः संस्तवं विशिनष्टि, संस्तव इह संवासजनितः परि
तीचाराः चयः संवसनभोजनालापादिलक्षणो, न स्तुतिः, प्रशंसायास्तुल्यत्वात् , तत्परिचयस्यात्र प्राधान्यं, स्तुतिस्तु प्रासंगिकी, लोके च ।। प्रतीतः संपूर्वः स्तौतिः परिचये 'असंस्तुतेषु प्रसभं भयेष्वि'त्यादि, एकोऽपि हि शब्दो भिन्नार्थो गम्यते प्रयोत्कृवशाद् गोशब्द| वत् । अथ संस्तवशब्दस्यार्थ परिचयमेव भाष्येण स्पष्टयति-सोपधमित्यादिना, उपधा छद्म माया, सहोपधया सोपधं, निरुपधं-| | निश्छद्म निर्मायं, परिचये सति परमलक्षणं समक्षमेव सोपधमभूतान् वक्ति, दाक्षिण्यात् जानानोऽपि परमार्थ तन्मध्यसंवासपरिचयदोषात् तदीयप्रतिश्रयान्नपानोपजीवी दयापरा यूयममलबोधमाज इति वा परा शीलसंपद् युष्मास्विति गुणवचनं प्रासंगिकमत्र, परिचयात्तु प्रसवो दोषाणां, तथा तदन्यश्रवणे तन्मध्यदर्शने वोन्मार्गप्रतिपत्तिः स्यात् कस्यचित् कदाचिदिति प्रत्यवायः, मिथ्यादर्शनदाढ्यं वा जायेत तद्वर्गस्येति प्रत्यवायः, तथा निरुपधमेव भूतगुणाभिधानं जातुचित् कुयत् िपरिचयप्रीत्या, ततश्च त एवं | पूर्वका दोषाः समापतंति, अतः संवासात् परिचयलक्षणात् ज्ञानक्रियाभ्रंश इति दूरतः संस्तवः परिहार्यः । एवं शंकादिसकलश| ल्यरहितं सम्यक्त्वं शेषगुणानामाधारीभवति अशुद्धं तु न प्रतीच्छति गुणान् विनाशयति चेति १८॥ एवं तावदविशेषेण सम्यग्दृष्टेरतिचारा व्याख्याताः, संप्रत्यगारिण एव प्रतिव्रतमतिचारान् विवक्षुराह-- (पाठोऽयंx चिह्वगतः भाष्यस्य व्याख्यानभूतोऽपि न
॥३४५|| श्रीहरिभद्रीयादशैं न च मुद्रितायां सिद्धसेनवृत्ताविति लिखितसिद्धसेनीयवृत्तेलिखितः)
॥३४५॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org