________________
श्रीतत्त्वार्थ
हरि० ७ अध्या०
यप्रतिपत्तिलक्षणा विनाकावत्यारो द्वात्रिंशयससुखं,इदमेवर
सम्यक्त्वातीचाराः
| वैनयिकानां चेति चशब्दः समुच्चये, विनयेन चरति विनयो वा प्रयोजनमेषामिति वैनयिकास्तेष्वष्टासु स्थानेष्वनवधृतलिंगा| चारशास्त्रविनयप्रतिपत्तिलक्षणा विनयप्रधानास्तत्सपर्या विदधति कायेन वाचा मनसा दानेन च, एमिश्चतुर्भिः प्रकारैः सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु, एवं चाष्टकाश्चत्वारो द्वात्रिंशद्विकल्पा भवन्ति, एवमभिगृहीतमिथ्यादृष्टीनां सर्वसंख्ययात्रीणि शतानि | त्रिपष्टयधिकानि,अनभिगृहीतानि भोगसुखपराणां,आस्तां निःश्रेयससुखं,इदमेव प्रर्याप्तं यत् प्रकृष्टैश्वामिजनादिषु नीरोगतादियुक्तं
जन्मेति, सर्वदेवतासु पाखण्डिषु च तुल्यतामौदासीन्यं वा भावयतीति, एतत्सम्बन्धेनाह-प्रशंसासंस्तवौ सम्यग्दृष्टेरतीचारौ| | इति एषामुक्तलक्षणानां क्रियाऽक्रियावादिनामज्ञानिकानां वैनयिकानां च प्रशंसा स्तुतिरमिष्टवः पुण्यभाज एते सुलब्धमेमिर्जन्म सत्पथस्थाः सन्मार्गदर्शन निपुणा इत्यादि, संस्तवः तैः सहैकत्र संवासात् परिचयः, परस्परालापादिजनितः, तथाहि-एकत्र वासेन तत्प्रक्रियाश्रवणात् तत्प्रक्रियादर्शनाचासंहार्यमतेरपि दृष्टिभेदः श्रूयते, किमुत संहार्यमतेः, एमिर्भगवद्भिः पार्श्वस्थादियथाच्छन्दकैरपि साद्धं निषिद्धमेकत्र वसनभेकरात्रावपि सम्यग्दृष्टरुत्सर्गतः, तस्मादतीचारावेतौ मलीमसताहेतू तत्प्रशंसासंस्तवौ, सम्यग्दटेधशहेतू या, प्रसिद्धार्थवशादुपजातसन्देहः कविदा आह-प्रशंसासंस्तबयोः कः प्रतिविशेष ! इति मन्यते-'शंसु स्तुतौ', प्रशंसनं प्रशंसा,स्तुतिः 'ष्टुञ् स्तुतौ' संस्तवनं संस्तवः,सम्यक् स्तुतिरेव, अतस्तुल्यार्थत्वात् प्रश्नपति-का प्रतिविशेष इति?,अत्रोच्यते, ज्ञानेत्यादि (१५९-१७) ज्ञान-आगमः क्रियावादिप्रभृतीनां तत्प्रशंसा निरवद्यः प्रकृष्ट आगमः प्रमाणान्तरसंवादी न चामिभ| वितुमपरैः शक्य इत्येवमुद्भावनं, प्रत्यक्षमेव तेषां परोक्षं वा, भावत इति, तदाक्षिप्तेन चित्तेन भक्तिप्रहेन तदीयगुणैर्नम्रता नीतेनेति, तेषामेव दृष्टिदर्शनं स्वागमोक्तपदार्थश्रद्धानं तस्य प्रशंसा समक्षासमक्षं, प्रकृष्टमेषां सम्यग्दर्शनं सन्मार्गानुकूलमित्युद्भावभावनः
रात्रावधिभिदत्र आर-प्रतिरव,अतस्तुन्यार्थत्वप्रवेष्ट आगम:
||३४४॥
॥३४४॥
For Personal Present
Jon Education international
www.jainelibrary.org