SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ श्रीतत्त्वार्थ हरि० ७ अध्या० सम्यक्त्वातीचाराः न रोएइ सुत्तनिद्दिढुं। सेसं रोयंतोऽवि हु मिच्छट्ठिी मुणेअधो ॥१॥" इहलोके भवा एहलौकिकाः शब्दादयो विषयाः, सुगतेन | हि भिषणामक्लेशको धर्म उपदिष्टः, असावपि घटमान एव, तथा परिवाभौतब्राह्मणानामपि, तथा परलोके भवाः पारलौकिकाः | स्वर्गमानुषजन्मप्रभवाः शब्दादयो विषयास्तेष्वभिलाषस्तद्विषयाऽऽशंसा प्रीतिरमिलाषः कांक्षेत्यनन्तरं, दर्शनेषु वा, तथा चागमः |-"कंखा अण्णण्णदसणग्गाहो" प्रस्तुतोऽतीचारः तत्शब्देन तस्य परामर्शः, सोऽतीचारो मलीमसता ध्यामलता, कस्य ?, सम्यग्दृष्टेरित्याह, न निर्मूलमेव सम्यक्त्वं भवति, मलिनता तु तस्य जायत इति, कस्मात् पुनः कांक्षा अतीचार इति प्रश्नेनोपक्रमते-कुत इति, एवं मन्येत-जिनवचनं श्रद्धत्त एव, अश्रद्दधतश्च मिथ्यादर्शनं, आचार्यस्त्वाह-कांक्षिता इत्यादि (१५६-५) यस्मादन्यशासनतचाभिलाषी कांक्षिता, न विचारिता गुणदोषा येनासावविचारितगुणदोषो यतः सांसारिकसुखमल्पं विपाककटुकं तदप्यभिलपति, एतच्च भगवद्भिः प्रतिषिद्धं, प्रतिषिद्धानुष्ठानाच्च भावतो दूषयति सम्यक्त्वं, अतः समयमतिकामतीति । समय:-सिद्धान्तः अतिक्रमणमुलंघनं, कः पुनरसौ समयः 'णो इहलोगट्ठयाए' इत्यादि, केवलं कर्मनिर्जरणायैवेति, विचिकित्सा नामे(१५१-६)त्यादिना, मतिविभ्रमो विचिकित्सा-युक्त्यागमोपपन्नेऽप्यर्थे भ्राम्यति मतिः, यथाऽस्य महतस्तपःक्लेशस्य लोचौंड्यादेरायत्यां फलसंपद् भवित्रीति, अथच क्लेशमात्रमेवेदं निर्जराफलविकलमिति, नामशब्दो वाक्यालंकारार्थः, इदमप्यस्तीति इत्यादि, उभयथेह क्रिया-फलवती निष्फला च, कृषीवलानां कर्षणादिक्रिया कदाचित् फलवती जातुचित् निष्फलेति, |अत इदमस्तीदमप्यस्ति एवं परलोकक्रियायामप्यास्तितामतिविप्लुतिरिति । ननु शंकाविचिकित्सयों का प्रतिविशेषः १, उच्यते, पत शंका सकलासकलपदार्थभाक्त्वेन द्रव्यगुणविषया लक्ष्यते, इयं तु क्रियाविषयैव विचिकित्सा, तमेक विष्णोति मतिविप्लुति ॥३४॥ ॥३४१॥ For Personal P e ny www.ebay.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy