________________
श्री तत्वार्थहरि०
७ अध्या०
॥३४० ॥
Jain Education International
र्थ्यतः प्रतिपादितं भवति व्रती नियतं सम्यग्हष्टिरिति व्रतिलक्षणादेव विशिष्टावधारणं यो व्रती सोऽवश्यंतया सम्यग्दृष्टिःसम्यग्दर्शनी भवतीति यतः शंकादिदोपदूषितमनसो मिथ्यादर्शनशल्यतुद्यमानसकलमूलोत्तरगुणाधारत स्वार्थश्रद्धानस्य नियमत एव नास्ति प्रतित्वमतो व्रती नियतं सम्यग्दृष्टिरिति तत्र तेषु सम्यक्त्वाणुव्रतगुणव्रतशिक्षाव्रतेषु सम्यग्दर्शनातिचारः पंचभाऽयं - शङ्काकाङ्क्षा विचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेर तिचाराः ॥ ७- १८ ।। सूत्रं ॥ कृतद्वन्द्वाः शङ्कादयो भवन विभक्त्या निर्दिष्टाः सम्यग्दृष्टेरिति सम्यग्दर्शनभाजोऽतीचारा भवन्ति, मोहनीयकर्मणो वैचिज्यादात्मनः परिणतिविशेषाः, तानि द्वन्द्वपदानि पंचापि वृच्या दर्शयति- शंकेत्यादिकया, अतिचारो व्यतिक्रमः स्खलनमित्येकोऽर्थः, अधिगतेत्यादि, अधिगतं सुपरिज्ञातं जीवाजीवादि तथं यस्य तस्याप्येवंविधस्य भगवत इति श्रीवर्द्धमानस्य शासनं प्रवचनमभिप्रपन्नस्य - अभिमुखं भावतः प्रतिपन्नस्येतियावद् असंहार्यमतेरिति संहार्या आक्षेप्या परकीयागमप्रक्रियाभिरसमंजसाभिर्बुद्धिर्यस्य स संहार्यमतिः न संहार्यमतिर्भगवदर्हत् प्रणीततश्चश्रद्धा या तस्य सम्यग्दृष्टेरईत्प्रोक्तेषु जीवादिष्वर्थेषु, यथाऽऽत्मा लोकाकाशतुल्य प्रदेशः, गतिस्थितिहेतू जीवपुद्गलानां धर्माधर्मावपेक्षाकारणमित्येवमादिरनेकः पदार्थोऽत्यन्तः सूक्ष्मस्तेषु अत्यन्तलिंगागमगम्येषु यतः परमाणवः सूक्ष्माचातीन्द्रियाश्च तथापि लिंगेन कार्येणागमेन वाऽवगम्यन्ते केवलागमग्राहो| ष्विति केवलं एकमसहायं मत्यादिविनिर्मुक्तं आत्यन्तिकज्ञानावरणक्षयप्रभवं आत्मस्वरूपं सकलज्ञेयग्राहि ज्ञानं तेन गृह्यन्ते, आगमो द्वादशांगं गणिपिटकं तेन च गृह्यन्ते, अत आगमपरिच्छेद्येषु प्रज्ञापनीयेष्वर्थेषु यः संशयो भवति, एवं स्यादसंख्येय प्रदेश आत्मा | नैव स्यादिति वा, सेयमेवंविधा शंका, तथा चागमः- “संसयकरणं संका" तथा संशयो मिथ्यात्व मेव, यथाह - "पयमक्खरंपि एकंपि जो
For Personal & Private Use Only
अतिथिसंविभागः संलेखना
॥३४० ॥
www.jainelibrary.org