________________
अतिथिसंविभागः संलेखना
||धर्मानुष्ठानं कर्तुं, संहननं वज्रर्षभनाराचादि पोढा संहननस्य दौर्बल्यं दुर्बलता, हीयमानमित्यर्थः, उपसर्गास्तु दिव्यमानुपतिर्यश्रीतच्चार्थ
कृतात्मसमुत्थाः, दोषशब्दः प्रत्येकमभिसम्बध्यते, कालदोषात् संहननदौर्बल्यदोषादुपसर्गदोपाद्वा, धर्मो दशलक्षणकः तद्विपयाण्यहरि०
वश्यकर्त्तव्यान्यावश्यकानि साधोः प्रत्युपेक्षणादीनि अगारिणोऽपि चैत्यवन्दनवैयावृश्यपौषधप्रतिपच्यादीनि तेषां परिहाणिः७ अध्या०
अवसादः कालादिदोषात् तामवगभ्य कालादिदोषमन्तेरण वा अमितः प्रत्यासन्नमवबुद्धयेदं च कर्त्तव्यमित्याह-अवमौदर्येत्यादि | (१५८-६) अवमं न्यूनमुदरमवमोदरं तद्भावमौदर्य-अविकृतकुकुष्यण्डकमानेन द्वात्रिंशत्कवलाहारः पुरुषः स्त्री वा, ततः किंचि-|
दूनतादिभेदेनावमौदर्यमनेकविधमागमेऽमिहितं, चतुर्थादिभक्तभावना पूर्वोक्का, आदिग्रहणादर्धमासक्षपणादिपरिग्रहः, एभिस्तपो|विशेषरात्मानं संलिख्य-तनकृत्य विरुक्ष्य-रुधिरमेदोमांसाद्यपचयं कृत्वा कषायांश्चापास्य-प्रोज्झ्य च गृहिव्रतत्वमभ्युपगम्य संयम सर्वसावधविरतिलक्षणमुत्तमैर्महाव्रतैः सम्पन्नः चतुर्विधमशनादिकमाहारं प्रत्याख्याय त्रिविधं वा यथासमाधि यावजीवमिति विशिष्टावधिकं भावनानुप्रेक्षापरः भावनाः पूर्वोक्ताः अनुप्रेक्षास्तु वक्ष्यमाणा नवमे तत्पर इति तत्र निहितचेतास्तदध्यवसानः स्मृतिबहुलः सर्व स्मरति यत् प्रतिज्ञातं महाव्रतादि, मुषितस्मृतेर्न निर्जराऽस्ति प्रमादवतः, समाधिरिति चेतसः | स्वस्थता तबहुलः समाधिबहुला, नारौद्रध्यानयुक्तः,एवं कुर्वन्नुत्तमार्थस्येति प्रकृष्टपुरुषार्थस्य मोक्षस्याराधको भवतीति । सम्प्रति
पव्याख्यातस्वरूपाणि शीलानि निगमयति एतानि'(१५८-१०) त्यादिना उत्तरस्य च स पन्धमाचष्टे, दिक्षु व्रतं दिग्वतं, तदादौ ॥३३९॥
येषां तान्येतानि दिग्वतादीनि सप्तापि सह संलेखनया शीलानि भवंति, शील्यन्ते-अभ्यस्य ते समाचीयंते आत्मनि पुनः पुनरिति शीलानि, एवमयमगार्यणुव्रतशीलसम्पन्नो व्रतीच्युच्यते, स च व्रतति निःशल्य इत्यमुष्माद्धि वचनादिदमर्थात् साम
॥३३९॥
Jan Education international
For Personal Private Use Only
www.jainelibrary.org