SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीनचार्थ- हरि० लाभक्रमः अतत्त्वं चैतत् , न केवलं ज्ञानमिष्टसिद्धये सत्क्रियारहितत्वात् पावत् , न च क्रियामात्रं विशिष्टज्ञानरहितत्वादंधवदिति,अत आह'एकतरस्यापि' सम्यग्दर्शनादेरभावे-अलामे असाधनानि-अनिर्वकानीत्यतः समुदायवाचकत्वान्मोक्षमार्गशब्दस्य न्याय्य एकवचननिर्देशः, आह-इत्येष त्रिविधो मोक्षमार्ग इत्यनेनैव गतार्थमेतत् , न, सामस्त्यांगत्वात् ,प्रत्येकसाधनत्वेऽपि त्रिविधत्वाविरोधात् , असिपरश्वादिच्छेदसाधनेषु तथा तथा दर्शनादिति, अतस्त्रयाणां-सम्यग्दर्शनादीनां ग्रहणम्-आश्रयणं मोक्षार्थिना कर्तव्यमिति विधिः। एतेषामेव लामविधिमाह-एषांचे'त्यादिना, एषा'मिति दर्शनादीनां, चः समुच्चये, यथा समस्तानां मुक्तिहेतुता प्रतिपन्ना एवमिदमपि च प्रतिपत्तव्यं, 'पूर्वरग लाभ' इति सूत्रक्रममङ्गीकृत्य पूर्वस्य-सम्यग्दर्शनस्य लाभे-प्राप्तौ 'भजनीयं' विकल्पनीयं स्याद्वा न वेति, 'उनरं' ज्ञानं चारित्रं च,तथा देवनारकतिरश्चां मनुष्याणां केपांचित् सम्यग्दर्शनलाभेऽपि नाचा| रादिगोचरं विशिष्टं ज्ञानं, तथा केषांचिन्मनुष्याणां तल्लाभेऽपि न सामायिकादि विशिष्टं चारित्रमिति, 'उत्तरलाभेऽपि' (तु मु.) सूत्रक्रमप्रामाण्याचारित्रलाभे 'नियतो निश्चितः 'पूर्वलाभः' ब्रानलाभः,तदभावे सम्यक्चारित्राभावात् , एवं ज्ञानलाभे नियतो दर्शनलाभः, तदभावे सम्यग्बोधायोगात् आह-ज्ञानचारित्रे अधिकृत्य युक्तमुक्तमेतत् , तयोः कालभेदेनापि भावात् , ज्ञानदर्शने पुनरयुक्तं, युगपद्धावादिति, तथाहि-यदेव मिथ्यात्वमोहनीयक्षयोपशमादेः सम्यग्दर्शनं तदेव मत्यादिज्ञानमिति, उच्यते, अस्ति एतत्,तथापि ज्ञानावरणीयक्षयोपशमादिनिमित्तं ज्ञानं तथारुचिपरिणामभावे भवतीति तत्पूर्वकमुच्यते,न किंचिदत्रायुक्तम् , अत एव | कस्यचित् सम्यग्दर्शनलाभानन्तरं मृतस्य विशिष्ट ज्ञानं न भवत्पपीलियापिनी भजना, उदएन प्रसन, अक्षरगमनिकामात्रफल Hi |त्वात् प्रस्तुतारम्भस्येति ॥ सूत्रोपन्यस्तान मम्यग्दर्शनाद्यवयवान् प्रविभागतो व्याचिख्यासुराह-"तत्र सम्यगि"त्यादि, तत्रे' ॥१६॥ ॥१६॥ Jan Education n ational For Personal Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy