________________
श्रीतत्वार्थहरि०
, अत्र मोक्षमार्ग
वायदोपदेशनमित्याह-'तं पुरस्ता
वस्तादात अस्मात् सूत्रादुपरितनसूत्रे
न्त्येव मोक्षमागों, न न्यूनान्यधिकानि वा, 'एप' इत्ययगेव य इतिनाऽवधृतस्वभावो वक्तृश्रोत्युद्धिगोचरो, नान्यः, अधिकृते-|| भेदाः | यत्ताया विशेषात् संख्यामाह-'त्रिविध' इति तिम्रो विधाः-प्रकारा अनन्तरप्रदर्शिता यस्य स त्रिविधः, कोऽसौ ? इत्याह-मूत्रोक्तो|| आनुपूर्वी च | मोक्षमार्ग इति, अत्र मोक्षः कर्मविमुक्तः आत्मोच्यते तस्य मार्गः-शुद्धथापादनं, तत् सम्यग्दर्शनादिभिः क्रियत इति तान्येव | | मोक्षमार्गः, यथा(दा)पीषत्प्राग्भाराधरोपलक्षित क्षेत्रं मोक्षस्तदाप्याकालं तत्प्राप्तये तान्येव मोक्षमार्ग इति भावः, अत्र मोक्षमार्ग|| |एष इत्यस्य त्रिविध इत्येतद्विवरणमिति, न मोक्षमार्गस्यैतावदेवोपदेशनमित्याह-'तं पुरस्तादित्यादि,तं-मोक्षमार्गमनन्तरोक्तं, पुरस्तादिति--अस्मात् सूत्रादुपरितनसूत्रेषु 'लक्षणतः' लक्षणं-स्वरूपं ततः तत्वार्थश्रद्धानादिलक्षणमाश्रित्य 'विधानतश्च' भेदतश्च निसर्गाधिगमद्वारेण क्षयोपशमद्वारेण वा, चः समुच्चये, 'विस्तरेणे' त्युद्दिष्टसंक्षेपापेक्षया प्रपंचेन 'उपदेक्ष्याम' इति भणिष्यामः, स्वपरानुग्रहार्थ, यद्येवं किमनेन संक्षपार्थाभिधायिनाऽऽद्यसूत्रोपन्यासेनेति, अत्राह--'शास्त्रानुपूर्वी त्यादि,प्रधानपुरुषार्थ| शासनाच्छास्त्रं-प्रक्रान्तमेव, तस्यानुपूर्वी-परिपाटी तस्या विन्यासः--रचना तदर्थ, तुशब्दाल्लाभक्रमप्रदर्शनार्थ च, 'उद्देशमात्र'मित्यविशिष्टपदार्थाभिधानमुद्देशस्तन्मात्रमिद-सम्यग्दर्शनादिसूत्रमुच्यते--अभिधीयते सूत्रकारेण, एतदुक्तं भवति--अनेन क्रमेण
सम्यग्दर्शनादीनि वक्ष्यामः,अयं चामीपा लाभक्रम इति प्रदर्शनार्थमादाविदमुच्यते,संग्रहप्रतिज्ञानादिति,मोक्षमार्ग इत्येकवचननिर्दे| शप्रयोजनमाह--'एतानि चेत्यादिना, 'एतानि च प्रागुद्दिष्टस्वरूपाणि सम्यग्दर्शनादीनि, चशब्दः हिशब्दार्थो निपातः, स च यसादर्थः, 'समस्तानी'ति सर्वाणि, मोक्षसाधनानि-निःश्रेयसनिर्वर्तकानि, त्रिफलावदारोग्यकर्तृणि इत्यर्थः, विप्रतिपत्तिनि- १॥ रासार्थमर्थप्राप्यं सिद्धमप्येतदाह--एकतरे'त्यादि, विप्रतिपत्तिश्च ज्ञानमेव मोक्षमाधनमिति ज्ञानवादिनः,कियवेति क्रियावादिनः,
Jan Education r
ational
For PersonalsPrivateUDrly