________________
श्रीतत्वार्थ- हरि०
सम्यग्दर्शनादीनि
परं-प्रधान प्रकृतिसुन्दरत्वाद्विशुद्धिजनकत्वात् , प्रधानपुरुषोपायत्वात् , इममेव-प्रस्तुतं हितोपदेशं, इति-एवं वक्ष्यमाणेन प्रकारेण 'मोक्षमार्गम् अपवर्गपन्थानं प्रवक्ष्यामि, किमन्येन परिफल्गुनाऽभिहितेनेति ।।
॥तत्त्वार्थकारिका हरिभद्रसूरिविरचितायां तत्वार्थटीकायां समाप्ताः ।। __ एवं प्रयोजनाद्यभिधाय
___सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः इत्यादि सूत्रं (१) अत्र सम्यग्दर्शनादीन्येवेत्यवधारणं द्रष्टव्यम् , अन्यथा अन्यस्यापि मोक्षमार्गत्वे अमीषां प्रेक्षापूर्वकारिणां उपन्यामायोगात् , अन्यभावेऽपि गुणवत्चात् अमीषां उपन्यासोऽविरुद्ध एवेति चेत् , न, एतद्गुणविमुक्तानामन्येषां तन्मार्गत्वविरोधात् , मोक्षस्यैक| रूपत्वात् , मनुष्यलोकादेव च तत्र गमनादिति, 'मोक्षमार्ग' इति चैकवचननिर्देशः समुदितानामेव मोक्षमार्गवख्यापनार्थ | इति सूत्रपिण्डार्थः । अवयवार्थाभिधित्समया आह भाष्यकार:-'सम्यग्दर्शन'मित्यादि (पृ.५-२५) अत्र सम्यकशब्दः दर्शनशब्दसन्निधावपि श्रूयमाणः प्रत्येकमभिसंबध्यते,सम्यग्दर्शनं सम्यगज्ञानं सम्यग्क्चारित्रमिति,आह-सम्यग्दर्शनमहाययोनिचारित्रयोः | | सम्यक्त्वाव्यभिचाराद्गतार्थः प्रत्येकाभिसंबंधः?,उच्यते,सत्यमेतत् ,किन्तु सम्यग्दर्शनसहाययोरपि न सामायिकादिज्ञानदेशविरतिचारित्रयोः साक्षान्मोक्षमार्गत्वम् ; अपि तु विशिष्टयोरेवेति तत्संपरिग्रहार्थः प्रत्येकाभिसम्बन्धः, तत्र मिथ्यात्वमोहनीय (क्षय)| क्षयोपशमोपशमसमुत्था तस्वरुचिः सम्यग्दर्शन, ज्ञानावरणक्षयक्षयोपशमसमुत्थः तत्त्वावबोधो ज्ञानं,चारित्रमोहनीयक्षयक्षयोपशमोपशमसमुत्था तु सदसक्रियाप्रवृत्तिनिवृत्तिलक्षणा विरतिः चारित्रं, 'चारित्रमित्य 'यमितिशब्दः इयत्तां दर्शयति, एताव
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org