________________
श्री तत्वार्थहरि०
॥ १३ ॥
Jain Education International
विश्रोतुर्लब्ध्यादिसापेक्षस्याभावात् ब्रुवतः अभिधतः अनुग्रह बुद्धया कथं नु नामामी प्रतिबुध्येरन् प्राणिन इत्येवंभूतया वक्तुस्तु| हितक्कुः पुनः एकान्ततः - एकान्तेनैव भवति धर्म्म इति, फसनुग्रहस्योत्कषम्महेतुत्वख्यापनपरमेतत्, अन्यथोभयोर्वक्तृश्रोत्रो| विधिसापेक्षो धर्म्म इति न कश्चिद्विशेषः । यतश्चैवमतः किमित्याह - "श्रममविचिन्त्ये" त्यादि, (पृ. ४-३०) श्रमं - हृदयशो| पादिरूपं अविचिन्त्य - अविगणय्यात्मगतं स्वगतं यस्मात् सर्वार्थसम्पादनेनोत्तमो धर्म्मः तस्माच्छ्रेयः-अपवर्गसाधनं सदो| पदेष्टव्यं सदा कथनीयं श्रेय एव च, नाश्रेयः, स्वपरोपकारक मित्यर्थः, शास्त्रादि श्रेयः, उपदेशफलमाह - 'आत्मानं च परं चे 'ति, चशब्दौ द्वयोरप्यनुग्रह समुच्चयपरी, आत्मानं च परं च हि यस्मात् हितोपदेष्टा - अपवर्गसाधनकथकः सच्चः, अनुगृह्णाति, | उभयोर्निःश्रेयसगुणसिद्धेरिति, अनेन पूर्वोक्तं प्रयोजनादि समर्थितमिति । तच्चार्थाधिगमसङ्ग्रहाभिधानेन शिष्यानुग्रहः शास्त्रकर्तुः प्रयोजनं, इदं चानन्तरप्रयोजनं, परम्पराप्रयोजनं तु मुक्तिरेव, तज्ज्ञानतो वैराग्यादिभावेन मुक्तिसिद्धेरिति उक्तं च- "मोक्षमागोपदेशेन यः सवानामनुग्रहम् । करोति दुःखतप्तानां स प्राप्नोत्यचिरात् शिवम् ॥ १॥” इति श्रोतॄणां त्वनन्तरप्रयोजनं तत्त्वार्थज्ञानं, श्रवणप्रतिबोधानन्तरं तस्यैव भावात् परम्पराप्रयोजनं तु मुक्तिरेव, तज्ज्ञानतो वैराग्यादिभावेन मुक्तिसिद्धेरिति, उक्तं च - " मोक्षमार्गपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियासक्ता ह्यविशेन गच्छेति परमां गतिम् ||१||" इति, अभिधेयादि पूर्ववत्, हितोपदेष्टाऽनुगृह्णातीत्युक्तं, तत्र हितोपदेशे विप्रतिपत्तेः शेपव्युदासेन तमभिधित्सुराह - ' नर्त्ते चे 'त्यादि, (पृ.४-३१) 'नर्त्ते च | मोक्षमार्गात् न मोक्षमार्गाते - मोक्षमार्ग विहाय हितोपदेशो विद्यते 'जगति कृत्स्नेऽस्मिन', संपूर्णेऽपि त्रैलोक्य इत्यर्थः, अर्धो| पदेशादीनां प्रकृत्य सुन्दरत्वात् क्लेशजनकत्वात् संसारवर्द्धनत्वाच्च, यत एवं 'तस्मात् परमिममेवेति' तस्मादित्यवधारणोपसंहारः,
For Personal & Private Use Only
मोक्षमागों| पदेशवृत्तिः
५
॥ १३ ॥
www.jainelibrary.org