________________
पौषमः
पौषधस्वरूपं निरूपयति, रूढ्या पौषधशब्दः पर्वसु वर्तते, पर्वाणि च. अष्टम्यादितिथयः, पूरणात् पर्व, धर्मोपचयहेतुत्वात् , तत्र श्रीतत्वार्थ
पौषधः पर्वण्युपवांसः त्रिविधस्य चतुर्विधस्य वाऽऽहारस्य छेदः, नामशब्दो वाक्यालङ्कारार्थः, पौष उपवासः इत्यादिना | हरि०
||भाष्येणानन्तरमित्येकार्थिता, सोऽष्टमीमित्यादि, स पौषधोपवासः उभयपक्षयोरष्टम्यादितिथिमभिगृह निश्चित्य बुद्धयाऽ ७अध्या०
न्यतमा चेति, प्रतिपदादितिथिषु अनियम दर्शयति, अष्टम्यादिषु नियमः, चतुर्थायुपवासिनेति, कट्टलक्षणा तृतीया, मुसुथूणां सकृद्भोजनं मध्यमजनस्य भक्तद्वयं, तत्र मध्यमा प्रतिपत्तिमाश्रित्य चतुर्थादितपोगणना, अतीतेऽहनि मुक्त्वा प्रत्याख्यान
मित्येको भोजनकालः, द्वितीयेऽहनि भक्तद्वयच्छेदः, तृतीयेऽहनि भुक्तिकाले भुंक्त इति चतुर्थमुच्यते, एक उपवासः चतुर्थ, सदामथुपवसति यस्तच्छीलश्च स चतुर्थायुपवासी, आदिग्रहणात् पूर्वगणनयैव षष्ठाष्टमादिसमस्ततपोविकल्पग्रहणं, स्नानमुदकेन अनु| लेपनं चन्दनादिना गन्धा वासादयः मालाहं माल्यं पुष्पप्रकारः, अलंकारो वस्त्रकेशकटकादि व्यपगताः स्नानादयो यस्येति, न्यस्तो निक्षिप्तः सर्वसावद्ययोगो येन, सर्वशब्दः पूर्ववत् , कुशास्तृणजातिरशुषिराः तत्कृतः संस्तारः, संस्तीर्यतेऽसाविति संस्तारः
फलकमप्यशुषिरं चम्पकादिपट्टखण्डं, आदिग्रहणात् विदलवस्त्रकम्बलीपरिग्रहः अन्यतममिति उक्तानां मध्ये यथालाभमास्तीर्य प्रविरचय्य प्रतनुनिद्रेण अनुष्ठेयं, अथवा स्वशक्त्यपेक्षया स्थानादिविधिनाऽनुष्टेयस्तदाह-स्थानमूर्खलक्षणं कायोत्सर्गाख्यं वीराणां
संहननयुक्तानामासनं जान्वधोभागतुल्यमंचिकादिनिविष्टस्यापनीताधोमंचिकस्य तथाऽवस्थानं वीरासनमुच्यते, निसद्यासनं हि ||३३६॥ | समस्फिग्निवेशनं पर्यकबन्धादिः, वाशब्दो विकल्पार्थः, स्थानादि वा शयनं या अन्यतममिति यदेवाभ्यस्तं आस्थायेति परिगृह्य
धर्मस्तु श्रुतचरणभेदाद् द्विधा,तत्र श्रुतधर्मो वाचनाप्रच्छनाऽनुप्रेक्षास्वाध्यायधर्मोपदेशलक्षणः चरणधर्मो महाव्रताणुव्रतोत्तरगुणभेदतः
॥३६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org