________________
श्रीतत्वार्थ
हरि० ७अध्या०
भोगोपभोगसामा
यिके
S
| यातना विनाशनमिति पर्यायाः, अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः स चैष भूतविषय उपमईलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्डः प्रयोजननिरपेक्षः अनर्थोऽप्रयोजनमनुपयोगो निष्कारणता, विनैव कारणेन भूतानि | दण्डपति यथा कुठारेण प्रहृष्टः तरुस्कन्धशाखादिषु प्रहरति ककलासपिपीलिकादि व्यापादयति, नामशब्दः पूर्ववत् , अनर्थदण्डखरूपनिरूपणायाह-उपभोगेत्यादि, उपभुज्यत इत्युपभोगः, उपशब्दः सकदर्थे, सकद्भोगः उपभोगः पुष्पाहारादि, अथवा आंतर| भोगः उपभोगः आहारादिः, अत्रान्तर्वचनः उपशब्दः, परिभुज्यत इति परिभोगः, परिशब्दोऽभ्यावृत्तौ वर्तते, पुनः पुनः भोगो | वस्त्रादेः, ननु च व्रतग्रहणाद्विरतिशब्दो गम्यत एव किमर्थ विरतिग्रहणं, उच्यते, आदरार्थ, दूरक्षश्चायमेतत् , आदृतः कथं नाम परिहरेदिति । सामायिकं नामेत्यादि (१५७-७) सामायिकमिति समो-रागद्वेषविमुक्तः आयो-लाभः प्राप्तिः, समस्यायः समायः तत्र भवं सामायिक, समाय एव वा सामायिक, नामशब्दोऽलंकारार्थः, अभिगृह्य कालमिति कालं नियम्य यावच्चेत्यादि पर्युपासे साधून् वा अन्यद्वा किंचिदुक्तलक्षणमास्थाय कालस्य गोदोहिकादि स्थिरचित्तवृत्तिः, गृहपौषधशालादिषु निर्व्यापारः सन् सर्वत्र सामायिकमातिष्ठते, अमुना विधानेन-करोमि भदन्त ! सामायिक द्विविधं त्रिविधेनेति, प्रतिपद्य चैवं ततश्चैत्यादि पर्युपासे, निक्षिप्तसावद्ययोगः अवयं गर्हितं पापं सहावद्येन सावद्यः योगो व्यापारः कायादिस्तस्य सावधव्यापारस्य निक्षेपः-परित्यागः |प्रोज्झनं, न करोमि न कारयामि मनोवाकायैरिति भावतस्तद्विशेषणं सावद्यमिति ॥ पौषधोपवासो नामे (१५७-८) त्यादिना
१ सर्वशब्दः प्रकृतविकल्पापेक्षया, अतः सर्वसावद्ययोग इति न करोमि न कारयामि तस्य विकल्पस्य प्रत्याख्येयो यः सावध-0 योगः स सर्व इत्यनेन विशेष्यते, न पुनः सामान्येन सर्वसावद्ययोगनिक्षेपणमिति, अगारवान् तस्यागारिण (इति सिद्ध०)
लकारार्थः, अमिरवितात्तिः, क, प्रतिपय च
ORIOSIAORDECE
॥३३५॥
॥३३५॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org