________________
श्री तत्वार्थहरि०
७ अध्या०
॥३३४॥
Jain Education International
| अर्थतः अनर्थतश्चेति, चशब्दः समुच्चयेऽनर्थः - अप्रयोजनं विना प्रयोजनेन भूखननोल्लिखनजलावगाहनवनस्पतिच्छेद कृकलासादिव्यापादनादिरनेकविधः, स एष सर्वः सावयः सपापो योगो व्यापारः कायादिकस्तेन चैव परिमाणात् परतो निरस्तेन निक्षिप्तो | निरस्तो भवतीति गुणावाप्तिः । सम्प्रति क्रमनिर्दिष्टं देशव्रतमुच्यते-अत्राह-वक्ष्यति भवान् देशव्रतं, पारमर्षप्रवचनक्रमः कैमर्थ्या| द्भिन्नः सूत्रकारेण आर्षे तु गुणव्रतानि क्रमेणोद्दिश्य शिक्षाव्रतान्युपदिष्टानि, सूत्रकारेण त्वन्यथा, तत्रायमभिप्रायः - पूर्वतो योजनशतपरिमितं गमनमभिगृहीतं, न चास्ति संम्भवो यत् प्रतिदिवसं तावती दिगवगाह्या, ततस्तदनन्तरमेवोपदिष्टं देशव्रतमिति, देशेभागेऽवस्थापनं प्रतिदिनं प्रतिप्रहरं प्रतिक्षणमिति सुखावबोधार्थमन्यथाक्रमः, सम्प्रति भाष्येण स्पष्टयत्येनमेवार्थ - देशव्रतं नामेत्यादि, (१५७-६) दिक्परिपमाणस्यैकदेशो देशस्तद्विषयं व्रतं देशनियमस्तच्च प्रयोजनापेक्षमेकादिदिकं सर्वदिक्कं यथा नामशब्दो वाक्यभूप| णार्थः, देशनिरूपणार्थमाह- अपवरक इत्यादि (१५७-३) अपवरको विशिष्ट एव गृहैकदेशः, तत्रैवं नियमः प्रवेशादिकाले - आप्रभात| समवादर्वाकू न मया निर्गन्तव्यममुतो देशादन्यत्र अनाभोगादिभ्य इति, एवं कुब्यमर्यादावच्छिन्नाद्भेहात् तथा वृत्तिपरिक्षेपावच्छिन्नात् क्षेत्रात् ग्रामाद्वा सीमावच्छेदाच्च, आदिग्रहणं नगरखेटकर्षटविषयजनखण्डपदार्थ, एतत् प्रदर्शनार्थमात्रं, एवं च यत्र देशे यावन्तं कालमिच्छति स्थातुं विहर्तु वा तत्र विवक्षितदेशात् परतो निवृत्तिरित्येव, अस्यैवार्थस्य प्रतिपादनार्थमिदमाह - यथाशक्तीत्यादि, यथा| शक्तीति कारणापेक्षया यावति देशे प्रबिचारो गमनादि क्रिया समस्ति गृहिणस्तदर्थः परिमाणाभिग्रहः प्रविचारजनितसूक्ष्मस्थूलभूतग्रामोपमर्दपरिहारः कृतो भवतीति दर्शयति ततः परतश्रेत्यादिना, प्राग्व्याख्यातार्थमेतद्भाष्यमिति । अनर्थदण्डो नामे| त्यादिना (१५७-५) अर्थ:- प्रयोजनं गृहस्थस्य क्षेत्र वास्तुधनशरीरपरिजनादिविषयस्तदर्थ आरंभो-भूतोपमर्दोऽर्थदण्डः, दण्डो निग्रहो
For Personal & Private Use Only
देशव्रतं
॥३३४॥
www.jainelibrary.org