SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ | दिग्बत श्रीतस्वार्थ हरि० ७ अध्या० -अभ्यासस्तस्याः पदानि-स्थानानि अभ्यासविषयास्तान्येव व्रतानि शिक्षापदब्रतानीति, गुणव्रतानि तुन प्रतिदिवसग्राह्याणि, सकदग्रहणान्येव, गुण्यन्ते-संख्यायन्त इति गुणा-दिगादयो, दिशापरिमाणं पूर्वादिका दिशः तासामिष्टसंख्याव्यवच्छेदेन परतः प्रत्याख्यानमातिष्ठते, एवमुपभोगपरिभोगमपरिमितं संख्याय परिमाणेऽवस्थापयति, शेषं प्रत्याचष्टे, तथाऽनर्थदण्डमुपयोगमात्रव्यतिरि|क्तस्य सकलस्य निवृत्तिमभ्युपैति, परिगुणयतो गुणवतसंज्ञा, एवमेतानि शिक्षाव्रतानि देशकालावस्थापेक्षाणि शीलमुत्तरगुणाख्यानि | अणुव्रतपरिवृद्धयर्थमेव भावनीयानीति । 'एभिश्चे'त्यादि(१५६-१७) भाष्यं,एभिरिति दिगादिवतैः आदिग्रहणात् शिक्षापदवतैश्च सम्पनोज्गारी व्रतीभवति, कानि | पुनस्तानि दिगादीनि व्रतानीत्याह-तत्र दिग्वतं नामेत्यादि, तत्र-तेषु उत्तरगुणेषु सप्तसु दिग्वतं नाम दिशोऽनेकप्रकाराः शाखे|ऽभिहिताः, तत्र सूर्योदयोपलक्षिता पूर्वा शेषाश्च पूर्वदक्षिणादिकास्तदनु क्रमेण, दिशां सम्बन्धि दिक्षु वा प्रतं एतावत्सु पूर्वादिदिग्भागेषु मया गमनाद्यनुष्ठेयं,न परत इति,नामशब्दोवाक्यालङ्कारार्थः,एतदेव स्पष्टतरं विवृणोति-तिर्यगित्याविना (१५७-१७) तिर्यगिति पूर्वादिका दिशोऽष्टौ निर्दिष्टाः, ऊर्ध्वमिति नवमी दिक, अध इति दशमी, एवमासा दशानां विशां यथाशक्ति (गमन)| परिमाणाभिग्रह इति, यथाशक्तीति यथासामर्थ्य कार्यापेक्षया गमिक्रियादिपरिमाणं एतावती दिक् पूर्वेणावगाहनीया, एतावती च पूर्वदक्षिणेनेत्यादि, अमिग्रहोऽमिमुखग्रहणं, आमिमुख्यं तु निश्चित्य झानेन गुणदोषाविति गृह्णाति, ततः को गुणोऽवाप्यत इत्याह |-तत्परतश्चेत्यादि, गुणमुपदर्शयति प्रष्टुः, चशब्दःक्रमावद्योतनार्थः, तस्माद्गमनपरिमाणात् परतः सर्वभूतेषु स्थावरजङ्गमाख्येषु पृथिव्यादिद्वीन्द्रियादिषु अर्थः-प्रयोजनमतिशयोपकारि, सत्यपि नस्मिन् न तत्र गमनाघनुतिष्ठति, अतस्तत्रत्यभूतानामनुपमर्दः । ॥३३३॥ ॥३३॥ For Personal Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy