SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ शीले श्रीतवार्थ हरि० ७ अध्या० नदेवमित्यादिना निगमयति सामान्यार्थेन शब्देनानेकभेदसंग्राहिणा, यत्तदोनित्यसम्बन्धात् यस्मादणूनि व्रतान्यस्य तस्मादेवमु|क्तेन प्रकारेणाणुव्रतधरः प्रतिपन्नाणुव्रत इति, धरणं यथागृहीतव्रताविस्मरणं वक्ष्यमाणातिचारपरिहारेण चानुपालनमत एवंविधः || गुणशिक्षाश्रावक इति अगारी व्रती च भवति, पर्यायकथनं चेदं भेदबहुत्वप्रतिपादनार्थम् ,एकादशोपासकमेदाः सम्यदर्शनप्रभृतयः सक व्रतानि लश्रावकभेदाधारभूता इति, आगमश्च-“दंसण वय सामाइअ पोसह पडिमा अबंभ सच्चित्ते । आरंभ- पेस उद्दिट्ठवजए। सम-40 |णभूए य॥१॥" दर्शनप्रतिपत्तेरारभ्य स्वशक्त्यपेक्षया व्रतधारणादिष्वध्यवसायक्रियाविशेषेषु प्रवर्तते प्रवर्धमानश्रद्धः श्रमणभूतांतेषु | स्थानेषु इत्येवमणुव्रतोऽगारी व्रती भवतीति । किंचान्यदित्यनेन प्रस्तुस्यार्थस्य सम्बन्धं कथयति, गृहीतमिदमुक्तलक्षणान्यनुव्रतानि |धारयति गृहीति, किंचान्यत् प्रतिपाद्यते, आहदिग्देशानर्थदण्डविरतिसामायिकपोषधोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागवत सस्पन्नश्च ॥ ७-१६ ॥ सूत्रम् ॥ कृतद्वन्द्वा दिगादयस्तैः सम्पन्नः-समृद्धः संयुक्तः,चशब्दः समुच्चयवचनः, प्रतिपमाणुव्रतस्यागारिणस्तेषामेवाणुग्रतानां दाापादनाय शीलोपदेशः, शीलं च गुणशिक्षाग्रतं, तत्र गुणव्रतानि त्रीणि दिग्भोगपरिभोगपरिमाणानर्थदण्डविरतिसंज्ञान्यणुव्रतानां | भावनाभूतानि, यथाऽणुव्रतानि तथा गुणव्रतान्यपि सकृद् गृहीतानि यावजीवं भावनीयानि, शिक्षापदव्रतानि सामायिकदेशावका| शिकपौषधोपवासातिथिसंविभागाख्यानि चत्वारि, प्रतिदिवसमनुष्ठेये द्वे सामायिकदेशावकाशिके, पुनः पुनरुच्चार्येते इतियावत् , ॥३३२॥ पौषधोपवासातिथिसंभागौ तु प्रतिनियतदिवसानुष्ठेयौ, न प्रतिदिवससमाचरणीयौ, पुनः पुनरष्टम्यादितिथिष्वनुष्ठीयेते इति, शिक्षा ॥३३२॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy