________________
श्रीतवार्थ
अगारिलक्षणं
हरि
७ अध्या०
| पनाणुव्रतोऽपि प्रतिदिवसं यतिभ्यः सकाशात् साधूनामगारिणां च सामाचारी शृणोतीति श्रावकः, श्राम्यतीति श्रमणः 'कृत्यलुटो | बहुले'ति वचनात् कर्तरि ल्युद, श्राम्यतीति-तपस्यति तपश्चरति प्रव्रज्यादिवसादारभ्य सकलसावद्ययोगविरतो गुरूपदेशात् स्वा| ध्यायिकं यथाशक्ति समाचरत्याप्राणपरिक्षयादिति, एवं च श्रावकोऽगारी श्रमणश्चानगार इति प्रसिद्धाभ्यामत्यन्तं पर्यायशब्दाभ्यां अगारिसामान्यमनगारसामान्यं च व्यवच्छिन्नं दर्शितमिति । अत्राहेत्यादिना (१५८-१०) सम्बन्धाति, अगार्यनगारश्च व्रती भवतीत्युक्तेऽत्र परः प्रश्नयति-कोऽनयोरगार्यनगारिव्रतिनोः प्रतिविशेषो, भेद इत्यर्थः, आचार्यस्तु तं विशेषममिधातुकामः अत्रो|च्यत इत्याह, योऽनयोविशेषः सोऽभिधीयते,
अणुव्रतोऽगारी ॥७-१५॥ सूत्रं ॥ महाव्रतापेक्षयाऽणु-स्तोकमल्पं देश इति पर्यायाः, महाव्रतानि सर्वपापभेदविरतिलक्षणानि सर्वसात् प्राणातिपातात् विरमा-IN मीत्यादि, अयं तु न सर्वतो विरतिमातिष्ठते, किं तर्हि ?, कुतश्चिदेव प्राणिपातात् यत एकेन्द्रियाः पृथिव्यादिकायाः पंच प्रायो| |दुष्परिहाराः समवासिना, स्थूलाच द्वित्रिचतुःपञ्चेन्द्रियाः, स्थूलत्वं सकललौकिकजीवत्वप्रसिद्धः, सूक्ष्मत्वं विगानेन जीवत्वाप्र| सिद्धेलोंके, तत्रापि संकल्पज प्राणातिपातं प्रत्याख्याति, नारम्भजम् , आरम्भो हि हलदन्तालखननसूनापंचकप्रकारः, तत्रावश्य
तयैव शंखणकपिपीलिकाधान्यगृहकारिकामण्डूकादयः संघहपरितापापद्रावणक्रियाभिः स्पृश्यन्ते, तस्मान्न समस्ति प्रत्याख्यानं | तद्विषयं, संकल्पजस्य तु सम्भवति, मनसा संकल्प्य द्वीन्द्रियादिप्राणिनो मांसास्थिचर्मनखवालदन्ताद्यर्थ न हन्मीत्यसुमतो निव
ते संकल्पकृतात् प्राणातिपातात् न करोमि न कारयामि मनसा वाचा कायेनेत्येवंविषयं प्राणातिपातमित्यादिविकल्पानामन्य
॥३३०॥
॥३३०॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org