________________
श्रीतचार्थ
हरि० ७अध्या०
कल्पः,अथवा अत्यल्प
विचाद्वषये, यः किल प्रविEिCH.
पद्यते,
| श्रुतप्रतिबद्धं च, तदेतन्नियुक्तिकारवचनविघातकारि, उच्यते, नास्ति विघातः, उत्सर्गापवादद्वारेण प्रवृत्तेः, द्विविधं त्रिविधेनेत्यादिरुत्सर्गः, सर्वस्य अगारिण एभिः षभिर्विकल्पैः सर्वमेव प्रत्याख्यानं प्राप्तमपोद्यते क्वचिद्विपये, यः किल प्रविब्रजिषुः प्रतिमा
वतिभेदा प्रतिपद्यते पुत्रादिसन्ततिपरिपालनार्थ तस्यैष संगच्छते विकल्पः,अथवा अत्यल्पं विशेष्य किंचिद्वस्तु यदि त्रिविधं त्रिविधेन प्रत्याचक्षते स्वयम्भूरमणमत्स्यादिकमपि उपपद्यते, स्थूलप्राणातिपातादिविषयं वा, न सकलसावधव्यापारविषयमिति, ननु च नियुक्तिकारेण | स्थूलप्राणातिपातादिविषयत्वेन नोपन्यस्तस्त्रिविधं त्रिविधेनेत्यादिभिर्विकल्पः, सत्यमेतद् , उत्सर्ग एव बहुलं प्रसिद्धत्वान्नियुक्तिका| रेणावाचि, यत् पुनः क्वचिदवस्थाविशेषे कदाचिदेव समाचर्यते सुष्टु समाचारानुपाति न, विधिसूत्रेषु च विधिमेव भूयसाऽनुरुध्यन्त इति न कश्चिद्दोषः, प्रकृतमुच्यते-भूयोऽगारिणां भेदः-"सोलस चेव सहस्सा अद्वेव सया हवंति अट्ठहिया । एसो उवासयाणं वयगहणविही समासेणं ॥१॥" अनगारभेदास्तु गच्छवासिनो गच्छनिर्गताच, आचार्यादिभेदात् पंचधा गच्छवासिनः पुरुषाः, | साध्व्योऽपि प्रवर्तिन्यादिभेदात् पंचधैव सदा गच्छवासिन्य एवैताः, गच्छनिर्गताः पुनर्जिनकल्पिकपरिहारविशुद्धिकप्रतिमाप्रतिप्रत्तिकादयः, अत्र गच्छवास्यादिषु नास्ति बतभेदः, सामाचारीकृतस्तु महान् विशेषोऽस्तीति तदाश्रयो भेदः सूत्रकारेण न विवक्षित इति, अधुना भाष्येण सूत्रार्थ स्पष्टीकुर्वनाह-स एष व्रतीत्यादि (१५६-८) अनन्तरसूत्रार्थे अमुं सूत्रार्थमनुसंधत्ते, | योऽनन्तरसूत्रे निःशल्यो व्रत्याख्यातः सामान्येन स एष व्रती द्विविधो-द्विप्रकार एव मूलभेदतो भवति, मूलभेदद्वयनिर्दिदि-10 क्षया चाह-अगारी अनगारश्चेति, अगारमस्यास्तीत्यगारी परिग्रहारम्भवानिति, ग्रहस्थ इत्यर्थः, अविद्यमानागारोऽनगारः,
॥३२५॥ परित्यक्तारम्भपरिग्रह इत्यर्थः, एतयोरेव पर्यायकथनेन व्याख्यानं तनोति-श्रावकः श्रमणश्चेत्यर्थः, अभ्युपेतसम्यक्त्वः प्रति
॥३२९॥
Jan Education International
For Personal &Private Use Only
www.jainelibrary.org