________________
बतिमेदौ
श्रीतत्त्वार्थ
हरिः ७ अध्या
अगार्यनगारश्च ॥ ७-१४ ।। सूत्रम् ॥ अगारं-वेश्म तदुपलक्षणमारंभपरिग्रहवत्तायाः, आरंभः सूनापंचकं पृथिव्यादिजीवकायोपमर्दहेतुः परिग्रहश्चेतनाचेतनो द्विपदचतुष्पदादिहिरण्यकनकमणिमुक्तावालादिः, एतद्द्वयमप्यगारशब्देनोपलक्ष्यते, तदेतदारम्भपरिग्रहावगारं यथासम्भवमस्ति यस्य भविष्यतीति जाताशः अपरित्यक्ततत्सम्बन्धः सर्वोऽप्यगारी-तदभिसम्बन्धाद् गृहस्थ इत्यर्थः, परित्यक्तारम्भपरिग्रहो भावतस्तद्विपरीतोऽनगारः प्रतिपन्नमूलोत्तरगुणकलापः, चशब्दादगारिणोऽनगारस्य च बहुभेदत्वं प्रतिपादयिषितमिति,अगारिणस्तावद्विविधाः -सम्यग्दर्शनसम्पन्नत्वे सति गृहीताणुव्रताः प्रतिपन्नोत्तरगुणाश्च, अपरे सम्यग्दर्शनमात्रभाजो, वक्ष्यमाणषडिकल्पाः उत्तरगुणप्रतिपत्तौ चाष्टौ विकल्पाः तथा द्वात्रिंशद्विकल्पाः, तत्र यैगृहिमिस्तान्यणुव्रतानि षड्भिः प्रकारैरात्तानि द्विविधं त्रिविधेन द्विविध द्विविधेन द्विविधमेकविधेन एकविधं त्रिविधेन' एकविधं द्विविधेनै कविधमेकविधेने ति एकैकस्मिन् अणुव्रते षड् विकल्पाः, पड् पंचकास्त्रिंशत् , प्रतिपन्नोत्तरगुणेन सहकत्रिंशत् , सम्यग्दर्शनिना सह द्वात्रिंशत् ननु च नवविकल्पास्त्रिविधंत्रिविधेनेत्यादयः, सप्तचत्वारिंशदुत्तरभेदनिष्पत्तेः, सत्यं, सम्भवति साधोर्न त्यागारिणः, सर्वसाबधयोगप्रत्याख्यानप्रस्तावामिधानात् , विशिष्टविषयं | तत् , सर्वसावधव्यापारप्रत्याख्यानमनुमतेरसम्भवान्नास्ति गेहिनः तत्पूर्वप्रयुक्तसावद्यकरिम्भानुमतिमपहायैवासी शेषं प्रत्याचष्ट इति, अत एव नियुक्तिकारेण षड्विधो विकल्प उपन्यस्तः द्विविधं त्रिविधेनेत्यादि, द्विविधमिति न करोमि न कारयामि, त्रिविधेनेति मनोवाकायत्रयेण, एवं शेषविकल्पा अपि भावनीयाः, त्रिविधं त्रिविधेनेत्यादिषु च त्रिषु विकल्पेषु सहानुमत्या करणत्रयमित्युक्तं नियुक्तिकारेण, ननु च भगवत्यादावागमे त्रिविधं त्रिविधेनेत्यपि विकल्पेऽस्ति प्रत्याख्यानमगारिणोऽङ्गगत
॥३२८॥
॥३२८॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org