________________
वतिलक्षणं
भीतवार्थ
हरि. ७ अध्या०
रोति, सर्वशल्यातिशायि मिथ्यादर्शनशल्यं, एभिरिति त्रीण्येव शल्यानि तैर्वियुक्तो-विमुक्तोऽन्तर्विशुद्धिप्राशस्त्यान्निःशल्यो व्रती भवतीति, तदेतदनेन प्रतिपादयति-अन्तर्विशुद्धस्य मार्गवर्तिनो यथाशक्ति क्रियानुष्ठायिनः सम्यक्त्वार्जवानाशंसावतः सम्पूर्ण अतित्वमिति, व्रते विशुद्धे च विभाविताऽन्तर्विशुद्धिरिति, ननु च कषायाः कोपादयः सर्व एव शल्यं, मायैव निष्कृष्य किमिति शल्यतया नियम्यत इति, उच्यते, एषा हि लब्धात्मलाभा तिरोधाय कोपादीन् सतोऽप्यात्मसामर्थेन वर्त्तते, भुजंगीवोपचितविषा छलशतैर्निर्दयं दशति तथा यथा नास्याः कश्चित् साधुवर्गाते सुकुशलोऽपि विषवेगं रुणद्धीत्यतः सकलदोषजातप्रच्छादननिपुणकुशलतामा मायैव शल्यं, न शेषाः कषाया इति, प्रधानत्वात्तन्मूलत्वाच्च मायाशल्यग्रहणमतः शठतारहितो व्रतीति | स्फुटम् , इह च-निःशल्यस्यैव पुनः सर्व व्रतमिष्यतेऽहंता लोके। उपहन्यते व्रतं खलु निदानमिथ्यात्वमायाभिः॥१॥ निःशल्यतापूर्वक बतित्वमिति प्रदर्शयन्नाह-व्रतान्यस्य सन्तीति व्रती, व्रतानि हिंसाविरमणादीनि तानि व्रतत्वमश्नुवते निःशल्य आधार इति । यथाऽऽगमाभिहितं, भूमप्रशंसातिशयनेषु मत्वर्थीयप्रत्ययविधानात् व्रतीति । तदेवमित्यादिना (१५६-५) भाष्येण निगमयति प्रकृतमर्थ, निःशल्यो व्रतवान् व्रती भवतीति निःशल्यस्यैव व्रतित्वं, न सशल्यस्येति, उक्तमप्यर्थ भूय आदराभिधानार्थमभिधत्ते, मतुबिनोश्च समावेशार्थ व्रती व्रतवानित्येकोऽर्थ इति । सूत्रसम्बन्धो मुक्तक एव, किमेष व्रती व्यपगतशल्यत्रयो हिंसाधभावात् यथोक्तक्रियासमूहविजृम्भितपरिणामः परित्यक्तगृहस्थव्यापारः सर्वांन्यागारसम्बन्धप्रतिनिष्ठ औत्सुक्ये प्रतिज्ञाते उताविरतोऽपि सर्वतः कश्चिद् गृही निश्रीयत इति, अत्रोच्यते, सामान्येन वतिनो लक्षणमभिधायामीपामेव हिंसादीनां सकलदेशवि|रतिविशेषादधिकृतो देधा भवति ।
॥३२७॥
॥३२७॥
Animalanintimatline
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org