________________
श्रीस्वार्थ | हरि०
७ अध्या०
॥३२६ ॥
Jain Education International
समुच्चये हि कालभेदो दृश्यते, अहरहर्नीयमान इत्यादौ, तथेहाप्यन्यस्मिन् काले निःशल्योऽन्यत्र काले बती स्वाद्, अनिष्टं चैतद्, इप्यते चैककालेन तदुभयमतोऽङ्गाङ्गीभावोऽश्राश्रीयते, निःशल्यताऽङ्ग अङ्गी व्रतीति वाक्यार्थश्चायं न हिंसादिविरमणमात्रसम्ब न्धाद् व्रतीति, किं तर्हि ?, शल्यापगमे सति व्रतमम्बन्धाद् व्रतीति, बहुक्षीरघृतो गोमानिति यथा, तदभावे सतीष्वपि गोषु न गोमान् इति, अभिधानानुविधायी च गुणो भवतीति, प्रधानमङ्गी व्रती निःशल्यता गुणोऽप्रधानमिति, तस्मादङ्गाङ्गीभावाभ्युपगमाददोप इति, आह च - "निःशल्यस्यैव पुनः सर्व व्रतमिष्यतेऽर्हता लोके । अभिहन्यते व्रतं खलु निदानमिध्यात्वमायाभिः ॥ १ ॥ एनमेवार्थ भाष्येण प्रतिपादयति मायेत्यादिना (१५६-४) माया शल्यमुपधिः च्छद्म कपायविशेषः, शल्यशब्दः प्रत्येकमभिसम्बध्यते, माया| शल्यं निदानशल्यं मिथ्यादर्शनशल्यमिति, मिमीते परानिति माया तेन शल्येन परेषां सारासारप्रमाणमादत्त इति, इयंत एतदिति, सुखसाध्या गृहीतहृदयावष्टम्भानवष्टम्भाः, निदायते-लूयतेऽनेनेति निदानं— अध्यवसायविशेषो, देवेश्वरचक्रवर्तिकेशवादीनामृ| श्री विलोक्य तदीययोषितां वा सौभाग्यगुणसंपदमार्त्तध्यानाभिमुखीकृतः महामोहपाशसंभूतः भूरितपस्वितापरिखेदितमनसाऽध्यवस्यति ममाप्यमुष्य तपसः प्रभावादेवंविधा एव भोगा भवेयुर्जन्मान्तरे सौभाग्यादिगुणयोगश्चेत्येवं निदाति- लुनाति क्षुद्रत्वात् | छिनत्ति मौक्तं सुखमिति, तच्च शल्यं महदन्तर्व्यवस्थितमनेकेन शारीरेण मानसेन च दुःखेन योजयत्यात्मानं अतिभूरिभूतोपमर्द नादारंभपरिग्रहत्वादिदोषापत्तिचेति, तत्त्वार्थाश्रद्धानं मिथ्यादर्शनं अभिगृहीतानभिगृहीतसन्देहभेदात्रिधा, तदेव शल्यं व्यालानिविषसमुद्रव्याधिकुपितनृपतिशत्रुवर्गादप्यधिकभयकारि जन्मान्तरशतसहस्रेष्वागामिष्व विच्छिन्नदुःखसन्तान संकटप्रपातकारित्वात् | संसारसागरपरिभ्रमणमूलकारणमशेषापायप्रभवमाजवंजवी भावविधायि गूढकर्म्मग्रन्थिविजृम्भमाणदुश्चिकित्सत्वविपाकमात्मसात् क
For Personal & Private Use Only
बतिलक्षणं
॥३२६॥
www.jainelibrary.org