SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ श्री स्वार्थ हरि० ७ अध्या० ।।३२५|| Jain Education International परिज्ञानं पश्चात् तत्सम्बन्धमात्रादेव किं व्रतित्वमथ प्रतिविशिष्टसम्बन्धाद् व्रतित्वमिति संदिहानस्य प्रश्नः, ननु च यस्योत्तलक्षणानि तानि सन्ति स व्रती, किमास्पदः सन्देहः ?, उच्यते, व्रतिशब्द (विशिष्ट) एव सम्बन्धिनि व्रतित्वं नात्र मत्वर्थीयः सम्बन्धः सामान्यमात्र विवक्षायां किं तर्हि ?, विशिष्टस्य सम्बन्धिनो व्रताभिसम्बन्धाद् व्रतित्वं, तथा चाह - "भूमनिन्दाप्रशंसासु, नित्ययोगातिशयने । संसर्गेऽस्ति विवक्षायां भवन्ति मतुबादयः || १ ||" इति प्रशंसायामिनिः प्रत्ययो भ्रमार्थेऽतिशायने वा, तत्र प्रशंसार्थे | मिथ्यादर्शननिदानमायाशल्यादिरहितत्वात् प्रशस्तस्य सम्बन्धिनो व्रतामिसम्बन्धाद् व्रतित्वम्, अतिशायनार्थेऽप्येवमेव, मिथ्यादर्शनाद्यपगमतोऽपायावद्यदर्शिनो विचक्षणस्य सर्वसंसारिक्रियाकलापदुःखबुद्ध्या निरुत्सुकविषयकुतूहलस्य मैत्रीप्रमोदकारुण्यमाध्यस्थ्य प्रणिधानापादितसौहार्दस्य जन्ममरणपरिखेदितमतेरवलोकितशरीरस्वभावस्य मुक्तिं प्रत्यवहितचेतसो मायानिदानमिथ्यादर्शनशल्य शून्यस्य व्रताभिसम्बन्धाद् व्रतित्वमिति चेतसि सन्निवेश्याचार्यः अत्रोच्यत इत्याह ॥ निःशल्यो व्रती ॥ ७-१३ ॥ सूत्रम् ॥ शलतीति शल्य मौणादिको यः प्रत्ययः, अन्तर्भिनत्ति कण्टकादि, तच्चावतिष्ठमानं वपुषि बलारोग्यपरिहाणिमापादयति शरीरि णस्तद्वन्मायानिदानमिथ्यात्वान्यंतरात्मनि वर्त्तमानानि संयमस्वरूप भेदित्वादनारोग्यमात्मनः क्लेशज्वरलक्षणं ज्ञानचरणवीर्यहानिं च विदधतीत्यतः शल्यानीव शल्यानि, निष्क्रान्तः शल्येभ्यः प्राणातिपातादिविरतियुक्तो व्रती भवति, न शल्यवानिति, शल्यवतो तित्वं नास्तीति सूत्रार्थः, न चात्र विकल्पः समुच्चयो वा वाक्यार्थः, विकल्पस्तावत् न भवति, निःशल्यो वा व्रती वेति, यतः समान कालानां निर्विकल्पेन प्रवृत्तिरिन्द्रियादिशब्दवत्, अभिधेयभेदश्वानयोर्निः शल्यत्रतिशब्दयोरतो न विकल्पः, नापि समुच्चयः, For Personal & Private Use Only तिलक्षणं ॥३२५॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy