________________
परिप्रह
लक्षणं
छमता द्रव्यस्य, कालतो मनमायाश्चासंमोहार्थमिच्छादीन पर, प्रकर्षणार्थना प्रार्थना तन्नि
| मिति न दुर्गतोऽपरिग्रह इत्युच्यते, तस्मात् मूर्छालक्षण एव परिग्रहो, नेतर इत्यवश्यतया प्रतिपत्तव्यमवशेनापीति, प्रकृतमुच्यते, श्रीतस्वार्थ-10
| मूर्छालक्षितपरिग्रहनिर्दिदिक्षया भाष्यकृदाह-चेतनावत्स्वित्यादि (१५५-१७) चेतना-चैतन्यं ज्ञानदर्शनोपयोगः स येषु विद्यते | हरि० ७ अध्या | ते चेतनावन्तस्तेषु चेतनावत्सु-एकद्वित्रिचतुष्पंचेन्द्रियेषु, अचेतनेषु च प्रायो वास्त्वादिषु, पायाभ्यन्तरभेदभाक्षु रागादिष्वात्मप
रिणामेषु मूर्छा, द्रव्येष्विति विषयनिर्देशः, क्वचिद् ग(म)लद्रव्यमेव शुद्धं क्वचिदात्मप्रदेशसंयुक्तमिति, द्रव्यग्रहणाच्चतुर्विधं परिग्रह सूचयति, क्षेत्रतो ग्रामनगराधवच्छिमता द्रव्यस्य, कालतो रात्रिंदिवव्यवच्छिन्नता, भावत इति प्रतिविशिष्टवस्तूपलम्भे महाघे सति अतिशयवती मूर्छा प्रजायते, मध्ये मध्या, जघन्ये जघन्येति, मूर्छायाश्चासंमोहार्थमिच्छादीन् पर्यायानाचष्टे भाष्यकारः-इच्छा शतधनः सहस्रमिच्छति सहस्रधनो लक्षमिच्छतीत्यादिपरम्परया सकलेन त्रैलोक्येनापि न धायति, प्रकर्षणार्थना प्रार्थना तन्निठत्वात् अविद्यमान किंचनमात्रोऽपि परमेव याचते तृष्णया वशीकृतः, कमनं कामो यथाप्रधानद्रव्यकामिता यद्यद्गुणवद्रव्यं तत्तदनुरुध्यत इतियावत् , अभिलाषस्तु मानस एव व्यापारः, परर्द्धिदर्शनादाक्षिप्तचेतोवृत्तिर्मनसाऽमिलपति-एवं ममापि यदि भवेयुः सम्पद इति, कांक्षणं कांक्षा अर्जनमतिपरिणामाविच्छेदः, गृद्धथतीति गर्द्धः, पचायच्, गो गृद्ध इत्येकोऽर्थः,यथाऽऽमिषार्थो गृधी दूरत एवालोक्य चक्षुषा सम्पतति,एवं लोभकपायनिना यानि यानि द्रव्योत्पत्तिधामानि तेषु सम्पत्य किंचिदासादयन्ति,अतो गर्द्धस्य
भावः कर्म वा गार्द्धथं, मूर्छा प्राग्व्याख्यातैव, अर्थादन्योर्थान्तरं नार्थान्तरमनन्तरं, सर्व एवायमेवंप्रकारको लोभकषायक॥३२४॥ | लिविजृम्भते, न कश्चिद्भेद इति ।। अत्राहेत्यादिना (१५६-१) सम्बन्धमुपपादयति, अत्र हिंसादिलक्षणपरिसमात्यबसरे पर आह
| गृहीमस्तावदित्यादि, गृह्णीम इत्यवगच्छामः, इदं हिंसादिविरतयो व्रतानीति, तावच्छब्दः क्रमावद्योतनार्थः, क्रमश्चायं प्राग्वत
PMIDEngliHORIMONIDAOIDIEOISODIYA
||३२४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org