________________
श्रीतच्चार्थ
हरि०
७ अध्या०
॥३२३॥
Jain Education International
निरारेकं प्रवर्त्तते, तनयः पितरमपि हिनस्ति भ्रातरं सहजः पिताऽऽत्मजमेवं जामिजनीपत्न्यादयोऽपि वाच्याः, गृहीतोत्कोचश्च कूटसाक्षित्वदायी ह्यनृतं भाषते, बलप्रकर्षात् पथि मुष्णाति पथिकजनं, खनति क्षत्रमपि, चौर्यात् लाभलोभाच्च राजादियोषित| मप्यभिगच्छति, सर्वथा न कश्चन भावो बहिरंतर्वा समासन्नो दूरदेशवर्ती वा मनोहरदर्शनः प्रतिकूलो वा यमयं विजयाद्भावेन, प्रचुरतरानिष्टसंपादनलघूनि चोपनीयंते दुश्चरितानि लोभभुजंगेन, अनेन पथीकृतः परमगौरवायतनेऽपि विषयपरिगाद्धर्थेन परिस्खलतीति मूर्च्छा लोभ इति निरचायि सर्वैः प्रकारैः, सा च मूर्च्छा लोभलक्षणा अभ्यन्तरबहिर्विषयालम्बना, तत्राभ्यन्तरो विषयः | चतुर्दशविधः, तद्यथा —– रागद्वेषक्रोधमानमायालो भमिथ्यादर्शनहास्यरत्यरतिभयशोकजुगुप्सावेदाख्यः, बहिरपि वास्तुक्षेत्र धनधा|न्यशय्याआसनकुप्यद्वित्रिचतुष्पाद्भाण्डाख्य इत्येतावद्विषयो मूर्च्छायाश्वेतः परिणामरूपायाः, एते रागादयः परिग्रहहेतुत्वान्मूर्च्छा, वास्त्वादयश्च ममेत्येवमज्ञानाद्विषयीकृताः कालुष्यवताऽऽत्मनाऽनेकविधजन्मग्रन्थिस्थिरीकरणायापर्यालोचितपूर्वापरभावेन परिग्र | होऽभिधीयते, परिगृह्यत इति परिग्रहः, लोभानुरक्तचित्तवृस्या स्वीक्रियत इतियावत्, परिणामविशेषो मूर्च्छा, सैव च परिग्रहस|द्भावपरिणामादात्मनो हिंसादिवत् प्रमत्त योगानुवृत्तिसामर्थ्यात् संक्षेपतो रागद्वेषमोहमूला मूर्च्छा, तद्विरहितस्याप्रतत्तकायवाङ्म| नोव्यापारस्य तु संयमोपकारिषुपधिशय्याऽऽहारशरीरेष्वागमानुज्ञातेषु न समस्ति मूर्च्छा, यथोक्तं- "जंपि वत्थं व पायं वा, कंबलं पाय पुंछणं । तंपि संजमलअट्ठा, धारंति परिहरति य || १ ||" न च योग्योपकरणकलापाहते साध्यार्थसिद्धिरस्ति, येऽपि मूढाः पात्र| वस्त्राद्यागमोक्तं मुक्तिसाधनमुपकरणमहिंसाव्रतपरिपालनप्रत्यलं न परिगृहते तैरपि जघन्यतः शरीराहारशिष्यादिपरिग्रहोऽवश्यंतया | कार्य एवेति न परमनालोच्यैवोपलब्धुमर्हतीति, अल्पबहुत्वाद्विशेष इति चेदित्यप्यसत्, दरिद्रस्य द्रविणमल्पं महर्द्धिकस्य प्रभूत
For Personal & Private Use Only
परिग्रह
लक्षणं
| ॥३२३॥
www.jainelibrary.org