SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थ हरि० ७ अध्या०] malayam परिग्रह लक्षणं |स्थितस्त्रीपुंसमिथुनमात्रं मिथुनभावो मैथुनकर्म वाभिधीयते, ततश्च स्त्रीप्रवजितयोश्चत्यामिवन्दनादिकर्मण्यप्रसंगो मिथुनभा-In वस्य, तदब्रह्मेत्यनेन तच्छब्देन स्त्रीपुंसादिलक्षणो मिथुनभावो मैथुनकर्म वा, सर्वमेतन्मैथुनमब्रह्मेति निगमनद्वारेण परामृश्यते, स्त्रीपुंसग्रहणं प्रधानत्वात् पूर्वोक्तसकलविकल्पप्रतिपादनार्थ, प्रधानं च स्त्रीपुंसयोमिथुनभावः, पृथग्जनाचरितास्तु शेषविकल्पाः, ते च स्त्रीपुंसग्रहणेन सर्वेऽपि सूचिताः, तदेतदब्रह्म संक्षेपतो रागद्वेषमोहमूलमनर्थपरम्पराकारि, रागात् परदाराभिगमलाभसत्कारात्ममित्रत्राणार्थमासेवते, द्वेषाद् वैरनिर्यातनार्थ, मोहात् स्वस्रादिपरिभोगात् , सावद्ययोगाद्यनुष्ठानमविच्छिन्नविषयपिपासाः समाचरंति, साधवस्तु विवेकबलादुपशान्तरागादिरजसस्सर्वात्मना परिवर्जयन्तीति ॥ अवाहेत्यादिना (१५५-१५) सम्बन्धकथनं, अवधृतहिंसादिलक्षणचतुष्टयोऽपरलक्षणाभिधानप्रस्तावे प्रश्नयति, अथ परिग्रहः क इति, अथाब्रह्मानन्तरं परिग्रह उपदिष्टः स किं ?, लक्षणविषयः प्रश्नः, आचार्य आह-अत्रोच्यते, अत्र लक्षणप्रश्नेऽभिधीयते, बाह्याध्यात्मिकोपधिविशेषसंरक्षणसमुपार्जनसंयोग| पर्येषणा या सैव हि शब्दान्तरनिर्दिष्टा मूर्छा परिग्रहः ॥ ७-१२ ॥ सूत्रम् ॥ अत्र प्रमत्तयोगादित्यनुवर्तते, मृति 'मूर्छा मोहसमुच्छ्राययोः' मूर्छयतेऽनया आत्मेति मूर्छा-लोभपरिणतिस्तयाऽऽत्मा मोहमुपनीयते-विवेकाद् प्रच्याव्यते, प्रच्युतविवेकश्च प्रतिविशिष्टलोभकषायोपरागादसमंजसप्रवृत्तिप्रवणोऽयमात्मा कार्यमकार्य वा न किंचिच्चेतयते, समुपगूढमूढिस्तृष्णापिशाचिकावशीकृतचेतोवृत्तिश्चेष्टतेऽन्धबधिरवदनालोचितगुणदोषः, समुच्छ्रायो वा मूर्छा, समु|च्छ्रीयते-प्रतिक्षणमुपचीयतेऽयमात्मा लोभोपरागबलानुरंजितो हिंसादिदोषैः, अतः सकलदोषाग्रणीलोभः, तथा च लुब्धो हिंसादिषु । ॥३२२॥ Jan Education international For Personal & Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy