SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ मैथुन श्रीतत्त्वार्थ हरि० ७अध्या० लक्षणं द्रव्यतः, क्षेत्रतोऽनन्तरवत् , कालभावौ च पूर्ववत् , भावो हि रागद्वेषपरिणाम आत्मन इत्यतः प्रमत्तयोगादित्यत्रानुवर्तमानपि नोप युज्यते, यत्राप्रमत्तस्य सतस्तथाभावे सति कर्मबन्धाभावः तत्र प्रमत्तयोगग्रहणमर्थवत् भवति, प्रमत्तस्य कर्मबन्धो नाप्रमत्तस्येति, KIप्राणातिपातवत् , इह पुना रागद्वेषान्वयाविच्छेदात् सर्वास्ववस्थासु मैथुनासेविनः कर्मबन्ध इति, आह च-"कामं सबपएसुवि उस्सग्गववातधम्मता जुत्ता । मोत्तुं मेथुणभावं ण विणा सोरागदोसेहिं ॥१॥" अतश्चानर्थकमेव प्रमत्तग्रहणमत्रेति, मण्डूकप्लुत्या वाधिकारानुवृत्तिः, असंख्येयलोकाकाशप्रदेशपरिमाणो बृहत्वादात्मा ब्रह्मा, स च मैथुनानुस्मृतिसंस्कारस्पृहेन्द्रियालोकवृष्यरसविकथासत्कृतिसंसक्तसेवाभेदाद्दशविधादब्रह्मणो निवृत्तश्चरन् ब्रह्म-ब्रह्मध्वनिवाच्यः आत्मैव, चरणं चर्य आत्मनो ब्रह्मणः सेवनमात्मन्यात्मरमणं, न बहिर्मुखचित्तता स्त्र्यादिविषया, अतो मनोवाकायैः कृतकारितानुमतियुक्तैः परिहारोऽङ्गनाविषयः सर्वथा ब्रह्मचर्य, आत्मन्येव वृत्तेः संवृत्तेन्द्रियद्वारत्वात् , तद्विपरीतमब्रह्म, तच्च तीव्ररागानुबन्धिना संकल्पेन चोदितः कायव्यापारो दशनकोटिकृतालिङ्गनकरजघट्टनालक्षणः तत्कालरमणीयकलप्रतापश्चानेकविधो वाग्व्यापारो विपरीतदर्शनाहितात्मकतिपयप्रेमलेशात् खकल्पनासमारोपितमनोज्ञकानुपजातातुलविषयतर्पपरिमुषितशेमुपीकान् पुंसः ऋशयत्यतितरां, तथा चानुकूलत्वादुस्त्यजमपीदमशुचित्वादिभावनाजालसंस्पर्शनाद्विवेकिनो जहत्यवधारितमकरध्वजप्रसराः, तदेवेदमब्रह्म यथोक्तलक्षणं भाष्येण प्रकाशयन्नाहस्त्रीपुंसयोरित्यादि (१५५-१४) स्त्री च पुमांश्च स्त्रीपुंसौ, त्रिचतुरादिसूत्रलक्षितः स्त्रीपुंसशब्दः, तयोः स्त्रीपुंसयोरद्भुततीव्रवेदपरिणामयोमिथुनता-मिथुनभावश्चित्तपरिणामो मोहकर्मोदयात् क्लिष्टः परस्परमाश्लेषे सति सुखमुपलिप्समानयोः स्त्रीपुंसग्रहणादेवोदितवेदयोमैथुन, कृत्तद्धितसमासानां चाभिधानलक्षणत्वात् प्रतिविशिष्टमैथुनकर्मसम्प्रत्ययो, न पुनः प्रयोजनवशादासन्नप्रदेश ॥२२॥ ॥३२॥ Jan Education n ational For Personal Private Use Only
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy