________________
अब्रह्मलक्षणं
सर्वमिदमसंबद्धत्वात् प्रलापमात्रं, श्रोत्रियप्रायदुर्विदग्धजनप्रहत एष पंथा उपेक्षणीयः,सप्रत्यवायत्वादिति, सर्व चेदं रागद्वेषमोहमूलं, श्रीतचार्थ
उक्तं मोहर्ज, रागजं तु यस्य येनार्थित्वं स तस्यापहारमाचरति, लोभसत्कारयशःसमावर्जनार्थ वा, द्वेषजं वैरप्रतियातनार्थमिति॥ हरि० ७ अध्या०
अब्राहेत्यादिना (१५५-१२) सम्बन्ध प्रतिपादयति, अत्रेति व्याख्याते हिंसादित्रयलक्षणे पर आह-अथ अब्रह्मेति, अथेत्यनान्तर्यसूचकः, ब्रह्मणोऽन्यद् अब्रह्म, तत् किं लक्षणमिति प्रश्ने सत्याह
मैथुनमब्रह्म ॥७-११॥ सूत्रम् ॥ मैथुनं द्वयमुच्यते, तत् कदाचिद् द्वयमपि सचेतनं कदाचिदेकं सचेतनमेकमचेतनं, तत्राद्यं पुरुषवेदोदयात् पुमानुपचितस्त्रीवेदया | दिव्यमानुषतिर्यकस्त्रिया सह संयुज्यते, अथवा पुरुषेण नपुंसकेन, फलादिविवरेण स्वहस्तादिना वा, एवं योपिञ्चेतनं कन्दादिमिर- | न्यहस्तादिभिरपीति, पश्चिमविकल्पे तूदितवेदः पुमानचेतनाभिर्दिव्यमानुषतिर्यस्त्रीप्रतिमामिलेप्यकाष्ठोपलपुस्तकर्मरूपामिः सह संपृच्यतेऽन्यैश्चाचित्तश्रोतोभिर्मृतशरीरकेण वा, तथा योषिदचेतनपुरुषप्रतिकृतिवतिना लिङ्गेन काष्ठशलाकादिना वा सह संयुज्यते, बहुप्रकारेण कृत्रिमोपकरणेन विडम्बयत्यात्मानं, एवं सर्वत्र मिथुनसम्भवः, तयोर्भावो मैथुनं तत्कृतत्वाद् युवादेराकृतिगणत्वादण, अथवा मिथुनस्येदं कर्म 'तस्येद'मित्यण् , अचेतनमपि हि वस्तु प्रतिमादि विवक्षितकर्मयोग्यतया परिणममानमनुग्राहकं तथा
भवतीति समीचीनमिदं तयोर्भावो मैथुनमिति, आगमतस्तु द्रव्यक्षेत्रकालभावभेदाच्चतुर्दा मैथुनं, द्रव्यतो रूपेषु वा रूपसहगतेषु ॥३२०॥ वा द्रव्येषु, रूपमचेतनं पुद्गलद्रव्यमानं प्रतिमादिर्न तु वर्णमात्रमेव, रूपसंहगतेषु वा द्रव्येष्विति, रूपं तदेव पुद्गलद्रव्यं तादृशा रूपेण
सासह संभूय गतानि जीवद्रव्याणि, गतानीत्यन्योऽन्यानुवेधिना परिणामेन परिणतानि,चेतनामांजि शरीराणीत्यर्थः, तद्विषयं मैथुन
P
Jan Education International
For Personal & Private Use Only