________________
S
श्रीतचार्थ
हरि०
Hधी, भवतु नाम शास्त्रप्रतिषेधस्त अभदन वर्तमानः परशब्दवाच्या वाक्यराशि:व्यश्रुतम् , उपचारात ग्रहण
भवतु नामरिणामिन्यात्मनि अभिनयधयन्त्यनेषणीयादिपण, द्रव्यक्षेत्रका
७अध्या.
Humbinamus
| भेदेनोपादानमिति, ननु चैवंविधे भाष्यार्थे परैः परिगृहीतस्यादत्तस्य स्तेयबुद्धया ग्रहणमदत्तादानमिति अनेषणीयादग्रहणप्रसंगः, | येन परिगृहीतमनेषणीयादि स ददात्येव, ततस्तद्ग्रहणे कथं स्तेयमिति, उच्यते, सत्यं,तद् गृहिणा दीयते, शास्त्रेण तु प्रतिषिध्यते, IR अदत्तागरीयांश्च शास्त्रप्रतिषेधो, भवतु नाम शास्त्रप्रतिषेधस्तच्छास्त्रं कथं परशब्दवाच्यं ?, परो ह्यात्मा चेतनालक्षण इति, उच्यते, शास्त्रमपि | ज्ञानमात्मनः परिणामविशेषः, स परिणामिन्यात्मनि अभेदेन वर्तमानः परशब्दवाच्यो न्यक्षेण क्षीणघातिकर्मणो भगवत उपदेशादुपजातभावश्रुतपरिणामाः गणधरप्रत्यकबुद्धस्थविराः प्रतिषेधयन्त्यनेषणीयादि, वर्णपदवाक्यराशिव्यश्रुतम् , उपचारात् शास्त्रमुच्यते पुस्तकादिलिखितमतः सर्वमदत्तादानं सूत्रेण समग्राहीति, तच्चतुर्दाऽधीतमागमे, द्रव्यक्षेत्रकालभावभेदात् , द्रव्यतो ग्रहणधारणीयेष्वित्युक्तं, क्षेत्रतत्रैलोक्यव्यवच्छिन्ना(स्थिता)नि तान्येव द्रव्याणि, कालभावौ तु पूर्ववद्भावनीयौ ग्रहणधारणीयेष्विति । आदानं गृह्यमाणधार्यमाणद्रव्यविषयत्वाद्रव्यैकदेशवृत्तिः,न तु समस्तद्रव्यविषयं, ग्रहणधारणे तु साक्षात् पुद्गलद्रव्यस्यैव, शरीरिणां च जीवानां पुद्गलद्रव्यद्वारेणैव ते ग्रहणधारणे, न पुनः साक्षात् , ननु चैवं परकीयभूमिखण्डापहारे धर्माधर्माकाशकालानामपि तदवच्छिन्नानामपहारस्ततश्चैतदपि सकलद्रव्यविषयमेव स्यात् न द्रव्यैकदेशवृत्तीति, उच्यते, हस्तादिना करणेन यद्रव्यं पूर्वकाधारप्रदेशात प्रदेशान्तरं प्रापयितुं शक्यते तद् ग्रहणधारणीपशब्दाभ्यामार्षे विवक्षितं, तच्चैवंविधं ग्रहणं धारणं चाकाशादिषु न संभवति, | तस्माद्रव्यैकदेशवृत्त्येवादानं न्याय्यं । ___ अपरे तु मोहादमिदधते-यद्यपि ब्राह्मणो हठेन परकीयमादत्ते छलेन वा तथापि तस्य नादत्तादानं,यतः सर्वमिदं ब्राह्मणेभ्यो
॥३१९॥ दत्तं, ब्राह्मणानां तु दौर्बल्याद् वृषलाः परिभुजते, तस्मादपहरन् ब्राह्मणः खमादत्ते स्वमेव ब्राह्मणो भुंक्ते स्वं वस्ते स्वं ददातीति,
॥३१९॥
Jan Education r
ational
For Personal Private Use Only