________________
श्रीतस्वार्थ
हरि०
अदत्तादानलंक्षणं
७ अध्या०
mmmmHOMMINOMIHIROE0mm
बव्युत्पचमावः उत्पने गोत्रविज्ञाने, पयार्थबमनोविज्ञानविषयः,ततश्च तदमिज्ञातुं समर्थे थोतरीति , पाक्यानिमिबे तु समिषालाप: स्यात् मृषावाद इति, तदेतदयुक्तं, प्रमत्तभाषितत्वात् अर्थाभिज्ञोऽनभिज्ञो वा भवतु श्रोता, किं तेन बाइन वस्तुना निमित्तमात्रतयोपयुज्यमानेन ?, स्वाशयोऽत्रापराध्यति, सर्वथापि प्रमत्तो यः कार्यवाइमनोयोगैरसदभिधत्ते तदनृतं, आशयस्याविशुद्धत्वात् , संमित्रप्रलापश्च परिभाषान्तरमात्मरुच्या व्यवस्थापितमनृतवचनात् परमार्थतो न मिद्यत एव वाचकमुख्यप्रणीतादुक्तलक्षणादिति । 'अत्राहे 'त्यादिना (१५५-८) सम्बन्धं वक्ति, पूर्वसूत्रक्रमोपन्यस्तहिंसाऽनृतलक्षणानन्तरं |स्तेयलक्षणं प्रश्नयति, अथ स्तेयं किमिति लक्षणविषयः प्रश्न', स्तेयलक्षणं प्रच्छयते कीगिति, आचार्यस्त्वत्रोच्यत इत्याह, अत्र प्रश्ने स्तेयलक्षणमुच्यते,
__अदत्तादानं स्तेयम् ॥७-१०॥ सूत्रम् ॥ प्रमत्तयोगादित्यनुवर्तते, दत्ते स दत्तं कर्मणि निष्ठा, कर्म च कर्तुरीप्सिततमं चेतनाचेतनं वस्तु ममेत्येवं परिगृहीतं पंचमिदेवेन्द्रादिभिः परिगृहीतभिः कसैश्चिद्दीयते यत्तद्दत्तमुच्यते, यत्तु तैः परिगृहीतमेव, न दत्तं, तस्यादानं-ग्रहणं धारणं च खेच्छया हठेन समक्षमेव चौर्येण वा स्तेयमुच्यते, देवेन्द्रादिभिः परिगृहीतं दीयमानमपि किंचिद् भगवता नानुज्ञातमागमे शय्याहारोपविष्वनेषणीयादि तदपि स्तेयमेव, ननु चैवंविधमेव सूत्रं कार्य, शास्त्रेणादत्तस्यादानं स्तेयमिति, सत्यम् , एवं संगृह्यते सकलं लक्ष्यं, तथापि लापविकाशय आचार्यः सूत्रबन्धमेवं न चकारेति, अनेन च लक्षणेन खरकुटीसम्बन्ध मानुषकेशादर्भावत उज्झितस्य सति प्रयोजने ग्रहणमवकरादिस्थानोज्झितचीवरादेर्वा न स्तेयमिति, स्तेयबुद्धीत्यादि भाष्यं, स्तेनस्य भावः स्तेयं, हरामीत्यादातुः
189
२०ी
॥३१७॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org