________________
श्रीतस्वार्थहरि
७ अध्या०
||३१८ ||
Jain Education International
परिणामः स्तेयबुद्धिः सा च प्रमत्तस्यैव कायवाङ्मनोयोगत्रयानुसारिणी, बुद्धिर्ज्ञानमिति, तया स्तेयबुद्धया, कषायादिप्रमादक| लुपितधिया करणभूतया कर्तुः परिणन्तुराददानस्य स्तेयमिति, आदानं च द्रव्यभावाभ्यामात्मनो यथासम्भवमायोज्यं, स्तेयबुद्विग्रहणात्तु कम्र्मादानं न स्तेयमिति, ज्ञानावरणादिकर्मणो हि यद्यप्यदत्तस्य ग्रहणमात्रं तथापि न तस्य स्तेयबुद्धिर्बधुर्भवति, सत्स्वपि प्रमादादिबंध हेतुषु स्तेयबुद्धया त्वादित्समानस्य स्तेयं एतदेव स्पष्टतरमाचष्टे भाष्यकारः परैरदत्तस्येत्यादिना | (१५५-१०) परैः परिगृहीतस्य दानप्रवृत्तिरादानं वा संभवति, नापरिगृहीतस्य, अतस्तैरदत्तस्यादानं स्तेयं नतु ज्ञानावरणादि| कर्म्मणः कश्चित् परिग्रहीताऽस्ति यो दास्यति न वेति यदा च परैः परिग्रहीतृभिः परिगृहीतस्यादत्तस्यादानं स्तेयं तदा नास्ति | कर्मणि प्रसंगः, अपिच - प्रायोग्यमनुज्ञातं दक्षिणार्धदेवेन्द्रेण प्रथमतीर्थ एव भगवतः सुरासुरशिरोमालाकुसुमरजोरंजित चरणस्य | नाभेयस्य, कियतः पुनरन्यदीयस्य स्वीकरणं स्तेयमित्याह तृणादेर्द्रव्यजातस्येति, तृणमादिर्यस्य द्रव्यजातस्य तत् तृणादि, तृणग्रहणं निस्सारताप्रतिपादनार्थमल्पताप्रतिपादनार्थं च, तृणेन निःसारेणाल्पेनैकेनाप्यपहृतेनात्यन्तमैहिको दोषो न संभाव्यते, | तादृशस्याप्यदत्तस्यादानं स्तेयं भवति, किमुत मरकतपद्मरागादेरिति, अत्र च परिगृहीतापरिगृहीतस्येति केचिद् भाष्यमभिधीयते, तदयुक्तं, न ह्यपरिगृहीतस्य शास्त्रेणानुज्ञातस्य (स्यानुनज्ञातस्य वा ) ग्रहणं स्तेयमिष्यते, तस्मादपरिगृहीतस्येति प्रमादपाठः, तथा तस्यैव भाष्यकृतः शौच प्रकरणे ग्रन्थः “अदत्तादानं नाम परैः परिगृहीतस्य तृणादेरप्यनिसृष्टस्य ग्रहणं स्तेयं परैरनतिसृष्टं यद्, | यश्च शास्त्रे विगर्हितम् । तत् सर्वं न ग्रहीतव्यं, दन्तनिष्फोटनाद्यपि ॥१॥ न प्रकरणकारेणात्रापरिगृहीतस्येत्युक्तं, आदिग्रहणाद| नेकविधसारासारचेतनाचेतनमिश्रद्रव्यजातपरिग्रहः, जातशब्दः प्रकारवचनो, द्रव्यप्रकारः, गुणपर्याययोर्द्रव्यपरिणामविशेषादेव न
For Personal & Private Use Only
अदत्तादानलक्षणं
॥३१८ ।।
www.jainelibrary.org