________________
श्रीतावार्थ-
हरि० ७ अध्या०
मृषावादलक्षणं
। तदप्यसहर्शनम्, आमनागमनागमनवीक्षणभोजनादिका क्रिया कायबामभास्वरत्वात् , तस्मादयमपि हे
रैकदेशावस्थाने सति शेषदेशानां चेतनाऽभावप्रसङ्गः, ततश्च दंशमशकमक्षिकादितोदने शस्त्रच्छेदने च तेषु देशेषु न दुःखवेदना || स्यात् , चन्दनादिविलेपने च न सुखानुभवः, स्वानुभवसिद्धाच सुखदुःखवेदना इत्यतः प्रमाणविरुद्ध एव पंथाः प्रहातव्यः, 'आदित्यवर्ण इति भास्कररूपः, तस्य चारूपादित्वादमूर्त्तत्वाच कुतो भास्वरता, कम्मत्मिप्रदेशानामन्योऽन्यानुगतिलक्षणपरिणा|माभ्युपगमे समस्ति रूपादिमत्ता चेत् तदसत् . ज्ञानावरणादिपुद्गलानामभास्वरत्वात् , तस्मादयमपि हेयः पक्षः, 'निष्क्रिय' इति
आत्मा सर्वगतस्तस्य च गमनागमनवीक्षणभोजनादिका क्रिया कायवाल्मनःकरणजनिता तदभावादात्मा निष्क्रिय इति व्याचक्षते, तदप्यसद्दर्शनम् , आत्मनः सर्वगतत्वे प्रमाणाभावाद् , उपेत्य चाभिधीयते-सर्वगतात्मनः सर्वत्र सर्वोपलब्धिप्रसङ्गः, अथ यत्रैवोपभोगोपलब्ध्यधिष्ठानं शरीरमस्ति तत्रैवोपलन्धिस्तदभावान्नान्यत्र चेत् तदयुक्तम , अन्यत्रापि शरीरकाणां भावात् , निजधर्माधम्र्मोत्पादितं यच्छरीरकं तत्रेति चेत्, तदसत् , निष्क्रियत्वात् आत्मनस्तावेव धर्माधौं कथं निजाविति, निष्क्रियस्य संसारमुक्तिप्रहाणप्राप्युपायानुष्ठानाभावादसमीचीन एव निष्क्रियत्वपक्षः, आदिग्रहणात् क्षणविनश्वरविज्ञानमात्रतोद्भावनं स्कन्धमात्रतोद्भावनमवक्तव्यतोद्भावनं वा सर्वमनृतमिति । असत एव द्वितीयभेदव्याख्यानायाह-अश्वं च गौरिति, य इति प्रमत्तस्य कर्तुनिर्देशः, गौशब्दः संकेतवशाद् सास्वादिमति पिण्डे लोकेन व्यवहारार्थ प्रयुज्यत इति रूढम् , अश्वशब्दोऽप्येकशफाद्यवयवसनिवेशविशेषे | प्रसिद्धः, वक्ता तु वैपरीत्येन मौढ्यात् प्रयोगं करोति अश्वशब्दं गवि प्रयुंक्ते, शाठ्याद्वा, गोशब्दं चाश्व इति, एवम् अचौरं चौर| | इत्यादि । असत एव तृतीयभेदो गर्दा, तद्विवरणायाह-'हिंसे'त्यादि, गर्हणं-गर्दा कुत्सा शास्त्रप्रतिषिद्धवागनुष्ठानं गर्हितं कुत्सि| तमितियावत् , युक्तशब्दःप्रत्येकममिसंबध्यते, हिंसायुक्तं वचः सद्भूतार्थप्रतीतिकार्यपि अलीकमेव, यतो हिंसानिवृत्तेषावादादिनि
॥३१५॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org