________________
श्रीतच्चार्थहरि०
७ अध्या०
॥३१४॥
Jain Education International
सर्वमुपपद्यते, अभिधानं वाग्योगविषयः भावसाधनपक्षे, प्रमत्तस्यामिहितमात्रं करणसाधनपक्षे, प्रमत्तस्याभिनिविष्टचेतसः आत्मनः कर्तुर्विवक्षितार्थप्रतिपादने साधकतममिति कायेन हस्तलोचनौष्ठपादाद्यवयवक्रियामिरलीकाभिः परं वचयति, न चाप्यसद् ब्रवीति, मनसाऽप्यालोचयति एवं परः प्रतारणीय इति । सच्छन्दः प्रशंसार्थो लोकप्रतीतः, सत्पुरुषः सञ्जन इत्यादिषु प्रयोगेषु न सद् | असत्-अप्रशस्तमाप्तप्रणीतागमनिंदितं निषिद्धं वा 'तच्च त्रिविधमसदि 'त्यादिना (१५५ - १) भाष्यकारो दर्शयति, असदिति सद्भावप्रतिषेधः, असदित्यस्य शब्दस्यायमर्थः --सतो भावः सद्भावः सच्चोत्पादव्ययधौव्ययुक्तं तस्य भावः तदेव न तथा | भवतीत्यनेकेन पर्यायरूपेण तस्य प्रतिषेधो-निराकरणं, यदेतदुत्पद्यतेऽवतिष्ठते व्येति चेति तदेकमेवंविधं नास्तीत्यपहूनुवते, तत्र | सद्भावप्रतिषेधो नामेति नामशब्दो वाक्यालंकारार्थः, सद्भावप्रतिषेधो द्विविधः -भूतनिह्नवः अभूतोद्भावनं च भूतस्य - विद्यमानस्य निह्नवः-अपलापः, तद्यथा - नास्त्यात्मा नास्ति परलोक इति, विद्यमानस्यात्मनः कर्तुः शुभाशुभानां कर्म्मणां अनुभवस्मरणादिक्रियाधारस्य नास्तित्वं केचित् मोहात् प्रतिजानते, आत्माभावे च परलोकिनोऽभावात् परलोकाभाव इति सुज्ञानम्, आदिग्रहणाद् शुभाशुभकर्म्मतदुपभोगफलाभावपरिग्रहः, सद्भावप्रतिषेध एवाभूतोद्भावनं, चशब्दः समुच्चयार्थः यथावस्थिता| त्मसद्भावमसंख्येयप्रदेशपरिमाणमाश्रयवशात् संकोचविकाशधर्म्म कर्म्मरूपरसगन्धस्पर्शमनेकप्रकारक्रियमवधूयाज्ञानबलेनात्मानम| भूतमेवात्मतश्वं समुद्भावयंति स्वरुच्या श्यामाकतंदुलमाद्योऽयमित्यादि, श्यामाकः – कुधान्यविशेषः तस्य तन्दुलस्तत्प्रमाणः श्यामाकतन्दुलमात्रः, अयमित्यनुभवगम्यः स्वप्रत्यक्ष आत्मा निर्दिश्यते, तथा ' अङ्गुष्ठपर्वमात्र 'मिति, अंगुष्ठः - पाणेरवयवः तस्य लेखाऽवच्छिन्नः उपरितनो भागः पर्व तत् प्रमाणमस्येत्यङ्गुष्ठपर्वमात्र आत्मा, इत्थं चाभ्युपगमे तस्यात्मनः शरी -
For Personal & Private Use Only
मृषावादलक्षणं
॥३१४॥
www.jainelibrary.org