________________
श्रीतच्यार्थ - हरि•
७ अध्या०
॥३१३॥
Jain Education International
दिवव्यवच्छिन्नं रागद्वेपमोहपरिणतिविशिष्टं च, मारणमपि यथाऽभिहितप्राणपरित्याजनं, अतिपातो विनाशः, प्राणानामतिपातः प्राणातिपातः, अथवा अतिपातः पातनं शाटनं प्राणानामतिपातनं प्राणातिपातः, वध उपमर्दः, प्राणानां वधः प्राणवधः, देहः शरीरं देहादन्यो देहो देहान्तरं संक्रामणं नयनं प्रापणं देहान्तरे संक्रामणं देहान्तरसंक्रापणं, 'साधनं कृते 'ति समासः, पूर्व शारीरिकं त्याजितः शरीरान्तरं परिप्राप्यते, संसारभावी, न पुनर्यो मुक्तिमवाप्स्यतीति, रोपणं जन्मपरिप्रापणं संबर्द्धनं च, अपरोपणमुत्सा|दनमुत्खननं, विशेषेणापरोपणं प्रमादपरवत्तया मारणादिशब्दार्थेष्वप्येतद्विशेषणं द्रष्टव्यं प्राणानां व्यपरोपणं प्राणव्यपरोपणम्, इतिशब्द एवंशब्दस्यार्थे, एवमुक्तेन प्रकारेणानर्थान्तरं सूत्रन्यस्तहिंसाशब्दार्थानर्थान्तरं, मारणादिशब्दवाच्यमेकमिदमिति प्रतिपादयति, एक एवार्थः शब्दैरेभिः प्रतिपाद्यत इति । अत्राहेत्यादिना (१५४-१६) सम्बन्धं व्याचिख्यासते, अधानृतं किमिति अथेति हिंसानन्तरमनृतं निर्दिष्टं - प्रोक्तं तत् किंलक्षणमित्यजानानः प्रश्नयति, आचार्यस्तु तल्लक्षणं वक्तुकाम आह- अत्रोच्यत इति, अत्र प्रश्नेऽभिधीयत इति,
असदभिधानमनृतम् ॥ ७-८ ॥ सूत्रम् ॥
एतदुक्तं भवति-प्रमत्तयोगादित्यनुवर्त्तते, अतो वाक्यार्थः प्रमत्तयोगाद सदभिधानमनृतमिति, प्रमत्तो यः कायवाङ्मनोयोगे| रसदभिधानं प्रयुक्ते यत्तदनृत्तं, भावसाधनः करणसाधनो वा अभिधानशब्दः अव्ययसृतमिति सत्यार्थे, न ऋतमनृतं मिथ्याऽनृतमिति सूत्रविन्यासो युक्तो लघुत्वादिति चेन, सत्यभाषकस्य परपीडाकारिणो वचसः पापादानहेतुकस्य प्रतिषेधाय कौशि| कादिवाक्यस्येवासदमिधानग्रहणं, एवंविधे च सूत्रविन्यासे पर्यायमात्रमित्युक्तं स्यात् नतु लक्षणं मृषावादस्येति, असद्ग्रहणे तु
For Personal & Private Use Only
मृपाबादलक्षणं
॥३१३॥
www.jainelibrary.org