________________
श्रीतच्चार्थहरि०
७ अध्या०
॥३१०॥
Jain Education International
असच्चे विनाशस्य सर्वभावानां नित्यताप्रसङ्गः, अथ नित्यो विनाशः कार्योत्पादाभावः, सर्वदा विनाशेन प्रतिबद्धत्वात् यच्चोक्तं 'कायस्यैव सेन्द्रियस्य तजीवितेन्द्रियं व्यपदिश्यते, नत्वन्यस्य, आत्मनोऽभावादि' ति, तदप्यमीचीनं, यतः एकस्थितिवस्तुनिबन्धनाः सर्वेऽप्यनुभवस्मरणप्रत्यक्षानुमानार्थाभिधानप्रत्ययव्यवहाराः, स चैकस्थितिश्वात्मा, सति तस्मिन् पुरुषार्थप्रतिपत्तिरिति, ननु चानु| भवस्मरणादयः स्कन्धमात्रे विज्ञानमात्रतायां वा न विरुद्धाः, तन, निरन्वयविनश्वरत्वात् स्कन्धानां विज्ञानस्य च सन्तानाभ्युपगमे सर्वमुपपन्नमिति चेत् न, परमार्थतस्तस्यासच्वात् न चासत्यात्मनि तत्प्रणीतप्राणातिपातलक्षणे विषयावधारणं शक्यं कर्तुं संचिन्त्य | परस्याभ्रान्तिमारणमिति, मिश्राः संचेतनादिक्षणा मारणावसानास्तत्र कस्य प्राणातिपातः ?, किं संचतयितुरथ यस्य परविज्ञानमुभयस्याभ्रान्तिः अथ येन मारित इति, सर्वथा गृहीतशरणत्रया अप्यशरणा एव सौगताः, इत्येवं विचार्यमाणं सुगतशासनं निःसारत्वान्न युक्ति क्षमत इति ॥ प्रकृतमुच्यते
• व्यवस्थितमिदं - प्रमत्त एव हिंसको नाप्रमत्त इति । यद् सामान्येन कर्तृनिर्देशः यः कचित् प्रमत्त इति, कर्तुव करणान्य| भिन्नानि भिन्नानि च द्विप्रकाराणि, तत्र योगेंद्रियवीर्यज्ञानकरणान्यभेदेन वर्त्तन्ते, गमने निर्वर्थे पादवत्, कृपाणदात्रासिधेनु| कादीनि भेदेन व्यवस्थितानि, करणकारकाविनाभूता च कर्त्तृशक्तिरित्यभिन्नाः कायादयः करणत्वेन निर्दर्श्यन्ते, कृतद्वन्द्वाः कायादयस्तेषां योगस्त एव वा योग:, यथैव झात्मा कायादिभिर्युक्तस्तथा कायादिक्रिययाऽपीति, अतस्तद्व्यापारोऽपि योगः, युज्यतेSसावात्मनेति योगः, सप्तचतुश्चतुर्भेदः दुर्बलवृद्धयष्टिकल्पः, कर्तुरात्मनः तदाश्रयश्च वीर्यान्तरायक्षयोपशमजनितो वीर्यपरिणामो योगः कायादिचेष्टा, यथाऽऽह “जोगो विरिअं थामो उच्छाह परकमो तहा चेट्ठा। सत्ती सामत्थं ति. अ जोगस्स हवंति
For Personal & Private Use Only
हिंसा लक्षणं
॥३१०॥
www.jainelibrary.org