________________
கய
श्रीतत्वार्थ
हरि० ७अध्या०
हिंसा लक्षणं
न च दृष्टान्तमात्रात् स्वपक्षसिसियन प्रयोजयिता दाते, अचेतवादा
வாதியாம் பாடிய பாடாயமாகப் பாவியாயini
पेयतां परदारदर्शनस्पर्शने च कामिन इव साधोरवधप्रसङ्गः, साधुशिरोलुंचने कष्टतपोदेशने च शास्तुः कुद्धस्येवाधर्मप्रसङ्गः, विशूचिकामरणे चानदायिनः प्राणवधः, मातगर्भस्थयोश्चान्योऽन्यदुःखनिमित्तत्वात् पापयोगः, वध्यस्यापि च वधक्रियासम्बन्धादमि| स्वाश्रयदाहवदधर्मप्रसङ्गः, परेण च कारयतो नाधर्मप्रसंगः, न ह्यग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यते, अचेतनानां च काष्ठादीनां | गृहपाते प्राणवधात् पापप्रसङ्गः, न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरित्येवमनेकदोषसम्भवानाबुद्धिपूर्वकं प्राणातिपातावद्यमस्तीति, अत्रोच्यते जैनैः-प्राणातिपाताधवद्येन प्रमत्त एव युज्यते, प्रमत्तश्च नियमेन रागद्वेषमोहवृत्तिः, प्रमादपंचके च कपायप्रमादस्य प्राधान्यं, कषायग्रहणेन च मोहनीयकमाशो, मिथ्यात्वदर्शनमपि संशयिताभिगृहीतानमिगृहीतपिशुनितं, रागद्वेषौ च विकथेन्द्रियाश्रवप्रमादेष्वप्यन्वयिनी, निद्रा प्रमादः पञ्चविधोऽपि दर्शनावरणकर्मोदयादज्ञानखभावस्तदाकुलितचित्तो मूढ इत्युच्यते, रागद्वेषमोहाश्चात्मनः परिणामविशेषाः प्राणातिपाताचवद्यहेतवः सर्वैर्मोक्षवादिमिरविज्ञानेनाभ्युपेयंते, सिद्धान्तविधिना च परित्यागाकरणं शरीरादेर्ममत्वीकृतस्याविरतिः-अनिवृत्तिरात्मनः परिणतिविशेषः, साऽपि प्राणातिपाताचवद्यहेतुतया निर्दिष्टा भगवता भग| वत्यादिषु, अतीतकालपरिभुक्तानि हि शरीरादीनि पुद्गलरूपत्वात् समासादितपरिणामान्तराणि तदवस्थानि वा यावदपि योगक| रणक्रमेणन त्यज्यन्ते भावतस्तावदपि भल्लितोमरकर्णिकाधनुर्जीवास्नायुशरदाजकीचकशलाकाद्याकारेण परिणतानि प्राणिनां परिता|पमवद्रावणं वा विदधति सन्ति पूर्वकस्य कर्तुरवयेन योगमापादयन्ति, प्रतीतं चैतल्लोके, यो यस्य परिग्रहे वर्तमानः परमाक्रोशति | हन्ति व्यापादयति वा तत्र परिग्रहीतुर्दोषस्तमपरित्यजतः, नन्वनयैव युक्त्या अवद्यक्षयहेतवः शरीरादिपुद्गलाः निर्जराहेतवः पुण्यहेतवो|| वा पूर्वकस्य कर्तुः पात्रचीवरदण्डकप्रतिश्रयाहारपरिणत्या तपस्विनामुपकारकत्वात् प्रसज्यन्ते, नैतदेवं, अवयमविरतिहेतुकं, निर्जरा
॥३०५॥
॥३०५॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org