________________
हिंसा लक्षणं
श्रीतचार्थ
हरि० ७अध्या
प्राणी यदि भवति, हन्तुश्च प्राणीति यात नास्ति एतत् समस्तमतः कथं ना-सचित्य असंचित्य च
योगदुष्प्रणिधानं च, प्रमादोऽष्टविधः स्मृतः । तेन योगात् प्रमत्तः स्यादप्रमत्तस्ततोऽन्यथा ॥२॥" अपरेतु ब्रुवते-अप्रयत्नासमितः प्रमत्तः, प्रयत्नो द्विविधः-जीवाजीवपदार्थपरिज्ञानमीर्यादिसमितिपंचकं चेति, एतद्विरहितः प्रमत्त उच्यते, सूत्रकारेण तु प्रमत्तयोगादित्येवमभिदधता सर्वमेवैतत् प्रमत्तलक्षणं समग्राहीति,स्यादेतद्-अस्तु तृतीयविकल्पे प्राणातिपातः सम्पूर्णलक्षणत्वात् ,मार्यमाणः प्राणी यदि भवति, हन्तुश्च प्राणीति यदि विज्ञानमुपजातं, हन्मीति च यदि वधकचित्तोत्पादो, यदि च व्यापादितः स्यात् , सर्व | चेदमुपपन्नं तृतीये, प्रथमद्वितीयविकल्पे तु नास्ति एतत् समस्तमतः कथं तत्र हिंसकत्वम्, एतदेव च प्राणातिपातलक्षणमपरेण | स्पष्टतरं प्रपश्चितं-'प्राणातिपातः संचिन्त्य,परस्याभ्रान्तमारण'मिति, द्विविधं मारणं-संचिंत्य असंचिंत्य च, संचिन्त्यापि द्विविधंभ्रान्तस्याभ्रान्तस्य च, अभ्रान्तस्यापि द्विविधं-आत्मनः परस्य चेत्यतो विशेषणत्रयमुपादीयते, एतदुक्तं भवति-यदि मारयिष्याम्येनमिति संज्ञाय परं मारयति, तमेव मारयति,नान्यं, भ्रमिवा, इयता प्राणातिपातो भवति, यस्तर्हि संशयितो मारयति प्राणी न प्राणी? स वाऽन्यो वेति, सोऽप्यवश्यमेव निश्चयं लब्ध्वा तत्र प्रहरति, योऽस्तु सोऽस्त्विति कृतमेवानेन त्यागचित्तं न भवतीति, | ततश्चामंचिन्त्य योऽत्र घातः क्रियते भ्रान्तेन वा आत्मनो वा स न प्राणातिपातः, प्राणश्च वायुः कायचित्तसंमिश्रश्च प्रवर्तते, चित्तप्र| तिबद्धवृत्तित्वात् , तमतिपातयति-विनाशयति, जातस्य स्वरस्य सन्निरोधादनागतस्योत्पत्ति प्रतिबन्धातीति, जीवितेन्द्रियं वा प्राणः, | कायस्यैव च सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते,नत्वन्यस्य, आत्मनोऽभावात् , न ह्यात्मनः किंचित् प्रतिपादकं प्रमाणमस्तीति ॥ ___ अन्यस्त्वाह-आयुरुष्माऽथ विज्ञानं, यदा कायं जहत्यमी । अपविद्धस्तदा शेते, यथा काष्ठमचेतन ॥१॥ मिति, आर्हताः पुनरबुद्धिपूर्वकमसंचिन्त्यापि कृतं प्राणातिपातं प्रतिजानते, अबुद्धिपूर्वादपि प्राणवधात् कर्तुरधर्मो, यथाऽग्निस्पर्शादाह इति, तेषां चैवमभ्यु
॥३.४॥
॥३०४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org