________________
श्रीतवार्थ
हिंसा लक्षणं
हरि०
७ अध्या०
प्रमाद्यतीति प्रमत्तः कपायविकथेन्द्रियनिद्रासवैर्निमित्तभूतैः, तत्र कषायाः षोडशानन्तानुबन्ध्यादिभेदास्तत्परिणत आत्मा प्रमत्तः, इन्द्रियाणि-स्पर्शनादीनि तद्द्वारको रागद्वेषौ, समासादिततत्परिणतिश्च प्रमत्तः, स्पर्शनादिनिमित्तभेदात् कषाया एव प्रमादहेतुत्वेनोपन्यस्ताः, प्रमादश्च आत्मनः परिणामः कषायादिनिमित्तः, दर्शनावरणकर्मोदयात् स्वापो निद्रापश्चप्रकारा तत्परिणामाच पीतहत्पूरपित्तोदयाकुलितान्तःकरणपुरुषवद् व्यामूढः करचरणविक्षेपशरीरपर्यवसानक्रियाः कुर्वन् प्रमत्तः, मद्यं-मधुवारशीधुमदि| रादि तदभ्यवहारे सत्यागतमूर्छ इव विह्वलतामुपेतः प्रमत्तोऽभिधीयते, विकथाः स्त्रीभक्तजनपदराजवृत्तान्तप्रतिबद्धाः, रागद्वेषावि|एचेताः स्यादिविकथापरिणतः प्रमत्तः, प्रमत्तस्य योगः, कर्तरि षष्ठी, योगपरिणामं विशिनष्टि-योगः व्यापारश्चेष्टा, प्रमत्तस्यास्मनश्चेष्टेत्यर्थः, प्रमत्तयोगादिति पञ्चमी तृतीयार्थे द्रष्टव्या, प्रमत्तयोगेन-प्रमत्तव्यापारेण यत् प्राणव्यपरोपणं, अथवा पञ्चमी| विधाने ल्यब्लोपे कर्मण्युपसंख्यानं, प्रासादमारुह्य प्रेक्षते प्रासादात् प्रेक्षत इति, एवं प्रमत्तयोगं प्राप्य प्राणव्यपरोपणं कुर्वन्नामा || हिंसां निवर्तयति, प्रमत्तयोगात् प्राणव्यपरोपणमात्मैव हिंसां निवर्त्तत इत्यर्थः, अथवाऽधिकरणे चोपसंख्यानं आसने उपविश्य प्रेक्षते | आसनात् प्रेक्षते, एवं प्रमत्तं प्रमादस्तत्र प्रमादे स्थित्वा प्राणव्यपरोपणमाचरमात्मा हिंसां निर्वतयतीति पञ्चमी प्रयुज्यते, 'गत्यर्थाकमक' इत्यत्र भावकर्मणोरित्यनुवर्तते, तत्र वा क्तप्रत्ययः, प्रमत्तं प्रमादस्तेन च प्रमादेन योगः-सम्बन्धस्तदा वा परिणतिरात्मनः | ततश्च गुणहेतावस्त्रीलिङ्गे विभाषया पञ्चमी विभक्तिर्भवति, जाडयावद्ध इति यथा, एवं प्रमत्तयोगात्-प्रमादसम्बन्धात् प्राणव्यपरोपणमिति, प्राणाः पश्चेन्द्रियाण्यायुष्ककर्म कायो वाङ्मनः प्राणापानौ चेति दशधा द्रव्यपरिणामलक्षणाः पृथिव्यादिकायेषु यथासम्भवमवस्थिताः तेषां व्यपरोपणम्-अपनयनमात्मनः पृथक्करणं, यया चात्मपरिणतिक्रियया तद् व्यपरोपणं निष्पद्यते सा
॥३०२॥
||३०२॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org