________________
श्री तत्वार्थ
हरि० ७ अध्या०
॥३००॥
Jain Education International
in
GJO
| स्तु प्रायोगिकः आदिमान् परिणामः, एवमेव जगत्स्वभावः पुनः पुनरालोच्यमानः संवेगाय सम्पद्यते, 'कायस्वभाव' इत्यादि (१५४ - ३) कायस्य स्वभावो जन्मप्रभृत्यनित्यतां विनश्वरत्वं बालकुमारयौवनमध्यमस्थविरावस्थारूपं प्रतिलभते, अतः परिणामानित्यतां | शरीरस्य भावयेद् यावदायुपः परिसमाप्तिः, ततः क्रोधेनाग्निना वातातपशोषणेन परमाणुपर्यवसानेन विभक्तोऽनित्य इति व्यपदिश्यते, अपरं कायस्वभावो दुःखहेतुत्वं बाधालक्षणं दुःखं सा च बाधा यावच्छरीरं तावदपि दुःखोपभोगः, तया निःसारता कायस्वभावः | त्वग्मांसादिपटल भेदेनोद्वेष्ट्यमानेऽपि न किंचित् सारमुपलभ्यते, एवं भावयतः शरीरेऽभिष्वङ्गो न भवति, तथाऽशुचित्वं कायस्वभावः, यतः मूलकारणं असृक् शुक्रं च, उत्तरकारणं आहारः, तस्य च विपाको अशोभनः अशुचिरेव काय इत्येवं भावयेद्, एवं च भावयतः संवेगो वैराग्यं च भवतीति, 'तत्र संवेगो नामे 'त्यादि (१५४-५) तत्रेति चानयोः संवेगवैराग्ययोः संवेगस्तावदित्थंलक्षणः, नामशब्दो | वाक्यालङ्कारार्थः, भीरुः-भीतिशीलः संसारो-नारकतिर्यङ्मनुष्यामरभवप्रपञ्चः सकलदुःखमूलः संसाराद् भीरुः २ तद्भावः संसा| रभीरुत्वम्, उद्विजते हि प्रेक्षापूर्वकारी दुःखात्, न जातुचित्तत्प्रवणो भवति, आरम्भाः सूनास्थानानि प्राण्युपघातकराणि व्यापाद|नसङ्कल्पपरितापजननप्राणापहारलक्षणाः सर्व एवारम्भा वेतनाचेतन वस्तुस्पर्शिनो, मूर्च्छाविशेषः परिग्रह। तेप्वारम्भपरिग्रहेषु दोषदर्शनादरतिः एहिकामुष्मिकप्रत्यवाया दोषाः तदर्शनात् तदुपलब्धेर्दुःखम् उद्वेगोऽप्रीतिररतिः, तद्वतश्च धर्मे बहुमानो धार्मि| केषु च धर्मः - क्षमादिदशलक्षणकस्तदासेविनो धार्मिकास्तेषु बहुमानो धर्मे च चकारः समुच्चयार्थः, बहुमानशब्दार्थनिरूपणायाह'धर्मश्रवण' इत्यादि (१५४-६) प्राक्तावद् धर्मजिज्ञासा ततस्तदभिज्ञप्रच्छनं पश्चाच्छ्रवणम् - आदरेणाकर्णनं ततः स्मरणानुष्ठाने, एप खलु धर्म्मविषये बहुमान आदरः- चित्तप्रसादः धार्मिकदर्शिनेति धार्मिकाः सम्यक्त्वज्ञानक्रियानुष्ठायिनः साधवोऽगारिणश्च तद्दर्शने च
For Personal & Private Use Only
जगत्कायस्वभाव
भावनाः
॥३००||
www.jainelibrary.org