________________
श्रीतच्वार्थ
हरि० ७ अध्या०
जगत्कायस्वभावभावनाः
चोपदेशं तीर्थकृतोऽपि नाद्रियन्ते, यथाह-सर्व च देशविरति मित्यादि, एवं च भावयतो बतानां स्थैर्य भवतीति ।। किंचान्यदित्यनेन सम्बन्धयति, अन्यदपीदं भावनीयमित्याह
जगत्कायस्वभावौ च संवेगवैराग्यार्थमिति ॥७-७॥ सूत्रम् ॥ एतद् व्याचष्टे-ताँस्तान् देवमानुपतिर्यग्नारकपर्यायान् गच्छतीति जगत् प्राणिजातमुच्यते, धादिद्रव्यसनिवेशो वा, चीयत इति कायः-शरीरं, जगच्च कायश्च जगत्कायौ तयोः स्वभावौ, तौ भावयेत् संवेगवैराग्याथ, यथासंख्यकेन सम्बन्धः, जगत्स्वभावं | भावयेत् संवेगार्थ,कायस्वभावं वैराग्याथ,तत्र संवेगः-संसारभीरुत्वादिलक्षणः, वैराग्य-शरीरनिष्प्रतिकर्मातादिलक्षणं, तत्र जगत्स्वभावो ‘माता भूत्वा दुहिता भगिनी (प्रश.)त्यादि, तथा जगत्-जीवाजीवद्रव्याणि तत्स्वभावः परिणामः, तेषामेव जगच्छब्दवाच्यानां द्रव्याणां जीवपुद्गलादीनां अनाद्यादिमत्परिणामयुक्ता इति, कश्चिदनादिपरिणामो जीवस्यासंख्येयप्रदेशवत्वचेतनत्वज्ञानत्वादिः कश्चिदादिमान देवत्वादिः, पुद्गलद्रव्यस्यापि मूर्तिमत्त्वरूपादिमत्त्वादिरनादिः, आदिमान् घटपटादिलक्षणः, धर्माधर्मयोः लोकाकाशव्यापित्वादिरनादिः, आदिमान गतिस्थितिपरिणतद्रव्यजनितः, लोकाकाशस्यामूर्तच्यासंख्येयप्रदेशत्वादिरनादिः, आदिमानवगाहकद्रव्यापेक्षः, एभिर्युक्ताः प्रादुर्भावादयो जगत्स्वभावाः, अनाद्यादिमत्परिणामग्रहणेन प्रादुर्भावादयो विशेष्यन्ते, उत्पादविगम| ध्रौव्याणीत्यर्थः, अनादिना परिणामेन विशिष्टो यः प्रादुर्भावः-आत्मलाभो वस्तुनः, तथा सन्निवेश:-आदिमत्परिणामविशिटश्च प्रादुर्भावः-पर्यायान्तरोत्पादः, तिरोभावस्तु सन्तानरूपेणावस्थितो वैश्रसिको विनाश एव, अनादिलक्षणा स्थितिध्रौव्यमनादिपरिणामः,अन्यत्वेति सर्वद्रव्याणां परस्परं भेदपरिणामोऽनादिः,आदिमदनादिरनुग्रहः-परस्परोपकारादिलक्षणो जीवानां,विनाश
॥२९९।।
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org