________________
श्रीतत्वार्थ
हरि०
७ अध्या०
| वन्ते तेषु विविधम्-अनेकप्रकारमैहिकामुष्मिकभेदं शरीरमनोविषयं दुःखं तेनार्दितेषु-हिंस्यमानेषु दैन्यसम्बन्धाद्दीनाः-अभिहित-|| याच्यायुक्ताः कृपणाः-उत्सन्नान्वयाः अनाथा:-अबान्धवाः केनचिदपि अगृहीताः स्वयं चासमर्थाः बालाः-शिशवः मोमुहाः
मैन्यादि
भावनाः | काहलाः वृद्धाः-सप्ततिसंवत्सरसंख्यामतीत्य वर्तमानाः तेषु कारुण्यमविच्छिन्नं भावयेत् , तथाहीत्यादि (१५३-१२) तथा च | भावयन् उक्तेन प्रकारेण हितोपदेशादिभिरिति, हितोपदेशो-मुक्तिसाधनसम्बन्धः, आदिशब्दाद्देशकालापेक्षान्नपानप्रतिश्रयक| पटभैषजैरपि तान् अनुगृह्णातीति,माध्यस्थ्यमविनेयेष्विति व्याचष्टे, रागद्वेषयोरन्तरालं मध्यं तत्र स्थितो मध्यस्थः-रागद्वेषेष्ववृत्ति| रिति, अरक्तद्विष्ट उदासीनस्तद्भाव औदासीन्यं तत् उपेक्षेति, ईक्षणमालोचनं,सामीप्येन अरक्तद्विष्टतया-अरागवृत्तिना अद्वेषवृत्तिना, एकार्थाभिधायिनः शब्दाः, अविनेयानामिति(१५३-१४)विनीयन्ते-शिक्षा ग्राहयितुं शक्यन्त इति विनेयाः न तथा अविनेयाः| अशिक्षार्हाः प्रकृष्टमिथ्यादर्शनावगृहीतचित्ताः पूर्वव्युद्राहिताश्चाविनेया इति, मृत्पिडकाष्ठकुड्यानीव मृपिण्डकाष्ठकुड्यभूताः, यथा |मृपिडादयो निश्चेतनाः श्रोत्रादीन्द्रियव्यापारशून्या नोपदिष्टमपि हितं समादत्ते तद्वदेते, तथा चोक्काः, तदेव स्पष्टयति ‘ग्रहण
धारणेत्यादिना (१५३-१५) उपदेशस्य ग्रहणं-प्रतिपत्तिः गृहीतस्याविस्मरणं धारणं एवमेतदिति निश्चितप्रत्ययो विज्ञानं ईहा | तत्त्वान्वेषिणी जिज्ञासा विचारणोत्तरकालमपोहः, एमिर्ग्रहणादिभिर्वियुक्ता महामोहो-मिथ्यादर्शनं तेनाक्रान्ताः अभिगृहीतमिथ्यादृष्टयो दुष्टावग्राहिताश्चेति दुष्टाः-रागादिदोषभाजस्तैश्च स्वपक्षानुरागात् परपक्षद्वेषाच्चान्यथावस्तु ग्राहिताः इति विप्रलब्धाः, ते चाजीवितावधेस्तमसद्हणं न मुचन्ति, तेषु पुनर्माध्यस्थ्यं भावयेत्, तेषु तत्त्वावगतेरभावाद्विफल उपदेशः, कस्मात् कारणान्मा- ॥२९८॥ | ध्यस्थ्यं भावनीयं ?, 'नहि तन्त्रे'त्यादि, नैव तत्र मृपिंडादितुल्ये दुष्टावग्राहिते च वक्तुर्हितोपदेशदानं साफल्यं भवति, निष्फलं
॥२९८॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org