SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ श्री स्वार्थहरि० ७ अध्या० ॥२९७॥ Jain Education International एतद् व्याचष्टे - 'प्रमोदो नामे'ति सम्यक्त्वादिगुणाधिकेषु प्रमोदो - हर्षस्तं भावयेत्, नामशब्दो वाक्यालङ्कारार्थः, अलङ्कारः श्रोत्रसुखत्वं, विनीयतेऽनेन कर्मेति विनयः - ज्ञानदर्शनचरणोपचारभेद क्रियाविशेषः, विनयहेतुर्वन्दनं - प्रहृता मनोवाक्कायैः विशेषत उत्तमाङ्गेन, स्तुतिः - सद्भूतगुणोत्कीर्त्तनरूपा वर्णवादो - यशः प्रख्यापनं वैयावृश्यं व्यापृतता बालग्लानगुरूपवासिशैक्षप्राघूर्णिकान् उद्दिश्य आगमविहितभक्तपानवस्त्रपात्रप्रतिश्रयदण्डकाद्युपकरणमार्गणानयनप्रदानलक्षणो व्यापारस्तस्यानुष्ठानं करणं, आदिशब्दा| देशकालापेक्षः साधूद्देशेन अनेकप्रकारः पूजाहेतुः संगृहीतः, सम्यक्त्वं तस्वार्थश्रद्धानलक्षणं ज्ञानं हिताहितावबोधकारि चारित्रं| मूलोत्तरगुणरूपं तपो-बाह्याभ्यन्तरविधानं एभिः सम्यक्त्वादिभिरधिकाः साधवो गृहस्थादिभ्यः तेषु परेणात्मना उभाभ्यां वा कृता या वंदनादिलक्षणा पूजा तया जनितः - उत्पादितः 'सर्वेन्द्रियाभिव्यक्त' इति सर्वग्रहणं सम्भ्रमापेक्षं साधुगुणोत्कीर्त्तनसमये चित्तकर्णदानविकसदुत्फुल्ललोचनाविर्भूतरोमाश्चतनुत्वं यत् स मनः प्रहर्षः प्रमोद इत्याख्यायते । कारुण्यमित्यादि (१५३-८) करुणाअनुकम्पा तद्भावः कारुण्यं कः पुनरस्य विषयः ?, क्लिश्यमानेष्वित्याह-क्लिश्यमानेषु - उपतापमनुभवत्सु, दीना - दुःखिताः शारीरमानस दुःखाभिभूताः तेषामनुग्रहः कारुण्यं घृणा दयेति पर्यायाः तदिति तत् कारुण्यं भावयेत् स्वक्षेत्रे, तत्क्षेत्रमाह-महामोहोमिथ्यादर्शनानन्तानुबन्ध्यादिः तेनाभिभूतेषु वशीकृतेषु, अत एव च मतिश्रुतविभङ्गाज्ञानपरिगतेष्वित्याह, मतिश्रुतविभंगाज्ञानान्युक्तलक्षणानि प्रथमे, तत्परिगतेषु तदाकारपरिणतेषु, विषयाः शब्दादयस्तेषु तर्षो विपयतर्षः, पिपासेति, सर्प इवाग्निः परितापकारित्वात् तेन दंदह्यमानचित्तेपु, न खलु विषयासेविनः कदाचित्तृप्यन्ति, स्थविरावस्थायामपि कांक्षासद्भावाद्, एवंविधावस्थेषु हितमित्यादि, हितं मुक्तिसाधनम् अहितं-संसारसाधनं तयोः प्राप्तिपरिहारौ तत्र विपरीता प्रवृत्तिर्येषां हितं परिहरंति अहितं आसे For Personal & Private Use Only मैत्र्यादि भावनाः ||२९७|| www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy