________________
श्रीतस्वार्थ
हरि०
७ अध्या
॥ २९६ ॥
Jain Education International
| परिगतात्मा - व्याप्तशरीरः काष्ठादिकंड्यनक्रियायाः कारणं नानारूपमुपदिशति, काष्ठशकलं - काष्ठखण्डं लोष्ठः - इष्टकादिखण्डं शर्करा |-शर्कराटंकः नखशुक्तयो-नखमुखानि, प्रदर्शनमात्रमेतत्, एभिः काष्ठशकलादिभिर्विच्छिन्नगात्र इति विदारितगात्रः, ततश्च श्रवता रुधिरेणाद्रः कंडूयमानः एवंविधाऽवस्थो दुःखमेव सुखमिति मन्यते मोहात्, तद्वत् मैथुनोपसेवीति, अनेन साम्यतामापादयति दृष्टान्तेन सह ततश्च दुःखभावनावासितचेतसो मैथुनायुपरमः श्रेयानिति । यथा प्राणातिपातादयो दुःखं तथा परिग्रहोऽपीति, | परिग्रहः - सचित्तादिभेदो ममत्वसम्बन्धः, अप्राप्यादीनि त्रीण्यपि परिग्रहविशेषणतयोपात्तानि तेषु कांक्षा - अभिलाषः, स च दुःखं खेदकारित्वात् प्राप्तेषु च परिग्रहेषु नष्टेष्विति, नृपदहनतस्कर दायाद मूषिकादिभ्यो नष्टेषु शोकः, स च दुःखं, तथा 'प्राप्तेषु रक्षण' मिति प्राप्तेषु स्वीकृतेषु रक्षणं परिपालनं, उपभोग इति आहारादिकः तत्र अवितृप्तिः - अतृप्तिता तत्रापि महत् दुःखं, अतः परिग्रहाद्व्युपरमः श्रेयानित्येवं भावयेत्, परिग्रहेष्वप्राध्यादिका वृत्तिर्न तु सूत्राणि । किंचान्यदि (१५२-१०) त्यनेन सम्बन्धमाह, भावनाधिकारे अन्यच्च किं भावयितव्यं ?, आह
मैत्रीप्रमोदकारुण्य माध्यस्थ्यानि सम्यगुणाधिकक्लिश्यमानाबिनेयेष्विति ।। ७-६ ।। सूत्रम् ॥
एतद् व्याचष्टे -कृतद्वन्द्वानां द्वितीयया निर्देशः मैय्यादीन् भावयेद्यथासङ्ख्यं, मैत्रीं सर्वेषु प्रमोदं गुणाधिकेषु एवमन्यत्रापि योज्यं, | मैत्री - सर्व सच्चविपयस्नेहपरिणामः येऽपि कृतापकाराः प्राणिनस्तेष्वपि मित्रतां चेतसि सन्निवेश्य क्षमेऽहमिति सर्वसच्चानां सम्यग् - | मनोवाक्कायैर्येषां च मयाऽपकारः कृतस्तानपि सच्चान् क्षमयेऽहं, क्षमां ग्राहयामीत्यर्थः, तत्र परः क्षमते वा न वेति एतदेव स्पष्टतरं | विवृणोति - 'मैत्री मे सर्वभूतेऽपि वैरं मे न केनचिद्' वीराणामिदं कर्म्म चैरं, पुनः पुनः पानककरणमित्यर्थः, प्रमोदो गुणाधिकेषु
For Personal & Private Use Only
मैत्र्यादि
भावना
| ॥ २९६ ॥
www.jainelibrary.org