________________
श्रीतचार्थ
हरि० ७ अध्या०
maroom
भावन
तामुपभोगे दशनच्छदपानाक्षिचुम्बनवपुःपरिरंभणपीनस्तनतटीनखमुखावदारणगुह्यसंयोगवीजनिसर्गसमकालभाविस्पर्शनेन्द्रियद्वारकं | | सुखमनुभवप्रमाणसिद्धं भूयसां प्राणिनां अप वानस्य प्रतीतिप्रत्यक्षविरोधाववश्यं भाविनावित्यारेकिते भाष्यकदाह-तच्च ने'- दुःखहेतुता | त्यादि,(१५२-२)तदित्यनेन स्पर्शनसुखमभिसम्बध्यते, न खलु तत् सुखं, दुःखमेवेत्यभिप्रायः, वक्ष्यमाणपामनदृष्टान्तबलात् प्रती-|| तिप्रत्यक्षविरोधावनास्पदौ, इतस्तमेव दृष्टान्तमभिधापयन्नाह-कुत इति, कस्मादेतत् स्पर्शनसुखं दुःखमेव प्रतिपत्तव्यं, युक्त्यन्तगत् , | साध्यसाधनसंगतेन हि साधर्म्यदृष्टान्तेन प्रतिपत्तिरुपजायते, साध्यसाधनशून्येन व्यतिरेकदृष्टान्तेन चेति, भाष्यकार आह|'व्याधिप्रतीकारत्वादि'त्यादि,राजपुत्रक्षयकुष्टादयो व्याधिविशेषास्तेषां प्रतीकारः प्रतिक्रिया तन्निदानपरिहारेण भेपजोपयोगः | पथ्यासेवनं च, उद्भूतो हि व्याधिः शरीरमनसो बाधामाधत्ते, बाधाप्रतिक्षेपश्च भेपजाद्युपयोगसाध्यः, कर्मणां च क्षयोपशमोदयादयः
क्षेत्रकालद्रव्यभावाद्यपेक्षा न खल्वात्यन्किं सुखोपजननमाधातुं समर्थाः, दुःखप्रतिबन्धमात्रकारित्वात् , मूढाश्च तमवस्थाविशेष सुखमिति | | मन्यन्ते,व्याधिश्च मकरध्वजः प्रथमोद्दिष्टव्याधितुल्यविपाकवत् , हेतुविवरणायाह-असुखे ह्यस्मिन्निति दुःखमेव भ्रान्ताः सुखमि
त्युपचरन्ति मोहादज्ञानाच्चेत्यतोऽसुखं दुःखं तस्मिन् सुखयुद्धिर्यथा गण्डादिषु पाकाभिमुखेषु परिपक्वेषु च तीबवेदनापरिगतस्य जन्तो|स्तत्पाटनपूयनिःसरणेन वेदनामात्रप्रशमः तथा पुरुषवेदाधुदयात्तीबार्तिभाजोऽवधारित विवेकवलस्य यत्किंचनकारिणो ग्रहाविष्टस्येवार्तध्यानोपगतस्य स्यादिसंयोगे विलयतोऽसभ्यानि प्राप्तमूर्छागमस्येव चाढं क्लिश्नतो बीजलेशानुत्सृजतः पूयलवानिव सुखमभिमन्यमानस्य तस्य तत् परमार्थतः दुःखं,तत्र सुखाभिमानो मूढस्याज्ञस्य, दृष्टान्तं व्याचष्टे-तद्यथेति कामसुखं दुःखमेवेति ख्याप्यते,
||२९५॥ तीब्रयेत्यादि (१५२-४) तीवा इति परां काष्ठां गता त्वक्-चर्म शोणितम्-असृक भीसं-पिशितं गता प्राप्ता, तयैवंविधया कण्वा |
॥२९५॥
Jain Education international
For Personal Private Use Only