SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थ हरि० ७ अध्या० | दुःखहेतुता भावन हेतुषु दुःखस्वभावेषु च दुःखबहुलतामेव भावयेदिति, केन प्रकारेणेत्याह-यथा मम अप्रियं न प्रीतिकारि दुःग्वम्-अनिष्ट| संयोगनिमिचं शरीरमनःपीडात्मकं व्यापत्तिपर्यवसानम् ,एवं सर्वेषां सच्चानामप्यप्रियं, वधवन्धच्छेदपाटनोल्लम्बनादिहेतुकमात्मानुमानादवसेयमित्येवमालोचयतः कृतिनो मनसि निश्चितपवतिष्ठतेऽतो हिंसाया व्युपरमः श्रेयानिति ।। अतोऽनृतभाषणमपि दुःखमेवेत्यभिधित्सुराह-'यथा ममे'त्यादि (१५१-१७), मिथ्याभ्याख्यानं प्राग् व्याख्यातं तेन मिथ्याऽभ्याख्यानेनालीकाध्यारोपेणाभ्याख्यातस्याभिमुखमाख्यातस्याभियुक्तस्य, प्रकाशितवानिदं कृतमुक्तं चेति तन्निमित्तं यथा मम प्रकृष्टं तीवं दुःखं भूत| मुत्पन्नपूर्वमित्यर्थः, सम्प्रति वा भवत्यलीकाध्यारोपात , तथा सर्वसच्चानां तागेव तीवं दुःखमभ्याख्यानहेतुकमुपजायनेऽस्मिन्नेव | लोके, अमुष्मिन् पुनलोंके मिथ्याऽभ्याख्यानपरो यत्र यत्र जन्म प्रतिलभते तत्र तत्र तादृशेरेवाभ्याख्यानरभियुज्यमानः सदा दुःखमनुभवतीत्यनृतायुपरमः श्रेयानिति ॥ हिंसानृतभाषणदुःखवत् स्तेयमपि दुःखमेवेत्याह-यथा ममेत्यादि, यथा मम स्वद्रव्यस्येष्टस्य वियोगेऽपहारक्रियया तस्करैः कृते दुःखं मानसं शारीरं या पूर्वमभूद्भवति चाधुना तथा सर्वसचानामतः स्तेया| सुपरमः श्रेयानिति ॥ यथा च हिंसानृतस्तेयानि दुःखस्वभावानि तथा रागद्वेषात्मकत्वान्मैथुनं दुःखमेवेत्यादि (ना) पूर्वदुःखतुल्यतामतिदिशति, मायालोभी रागः क्रोधमानौ द्वेषः, माया-छद्मरूपा तदाकारपरिणतच हिंसानृतस्तेयेषु प्रवर्तते, लोभोऽपि गार्थलक्षणः तत्परिणामश्च मांसादिगाद्धर्यादुक्ताऽवग्रहणेन चौर्येण वा तेषु प्रवर्त्तते, तथा क्रोधमानाभ्यामपि प्रेरितो हिंसादिपु प्रवर्तते इत्यत्यन्तप्रसिद्धं, मैथुनस्यापि तावेव रागद्वेषौ निदानं, रागद्वेपकारणचाच मैथुनमपि दुःखमेवेत्यवधार्यते, रागद्वेषावात्मास्वभावः कारणं यस्य तदुःखमेव रागद्वेपात्मकत्वादिमादिवत् , स्यादेतदित्यादिना (१५२-२) ग्रन्थेनाशङ्कने, प्रसिद्धिरियं योपि ॥२९४|| ॥२९॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy